Wednesday, 14 August 2013
Friday, 9 August 2013
BhartriHari's Vakyapadiya BhrahmaKandam
भर्तृहरि वाक्यपदीयम्
१ काण्ड
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः । । १.१
। ।
एकं एव यदाम्नातं भिन्नशक्तिव्यपाश्रयात् ।
अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते । । १.२
। ।
अध्याहितकलां यस्य कालशक्तिं उपाश्रिताः ।
जन्मादयो विकाराः षड्भावभेदस्य योनयः । । १.३
। ।
एकस्य सर्वबीजस्य यस्य चेयं अनेकधा ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः । । १.४
। ।
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः ।
एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक्पृथक् । । १.५
। ।
भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता ।
शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते । । १.६
। ।
स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः
।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः । । १.७
। ।
तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः ।
एकत्विनां द्वैतिनां च प्रवादा बहुधामता । । १.८
। ।
सत्या विशुद्धिस्तत्रोक्ता विद्यैवेकपदागमा ।
युक्ता प्रणवरूपेण सर्ववादाविरोधिना । । १.९
। ।
विधातुस्तस्य लोकानां अङ्गोपाङ्गनिबन्धनाः ।
विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः । । १.१०
। ।
आसन्नं ब्रह्मणस्तस्य तपसां उत्तमं तपः ।
प्रथमं छन्दसां अङ्गमाहुर्व्याकरणं बुधाः
। । १.११ । ।
प्राप्तरूपविभागाया यो वाचः परमो रसः ।
यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयं आन्जसा । । १.१२
। ।
अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते
। । १.१३ । ।
तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् ।
पवित्रं सर्वविद्यानां अधिविद्यं प्रकाशते । । १.१४
। ।
यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः ।
तथैव लोके विद्यानां एषा विद्या परायणम् । । १.१५ । ।
इदं आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानां अजिह्मा राजपद्धतिः । । १.१६
। ।
अत्रातीतविपर्यासः केवलां अनुपश्यति ।
छन्दस्यस्छन्दसां योनिं आत्मा छन्दोमयीं तनुम् । । १.१७
। ।
प्रत्यस्थमितभेदाया यद्वाचो रूपं उत्तमम् ।
यदस्मिन्नेव तमसि ज्योतिः शुद्धं
विवर्तते । । १.१८ । ।
वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् ।
व्यतीत्यालोकतमसी प्रकाशं यं उपासते । । १.१९
। ।
यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः ।
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् । । १.२० । ।
अथर्वणां अङ्गिरसां साम्ना ऋग्यजुषस्य च ।
यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितिपरिग्रहाः । । १.२१
। ।
यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते ।
तद्व्याकरणं आगम्य परं ब्रह्माधिगम्यते । । १.२२
। ।
नित्याः शब्दार्थसंबन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः । । १.२३
। ।
अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः ।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः । । १.२४
। ।
कार्यकारणभावेन योग्यभावेन च स्थिताः ।
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु । । १.२५
। ।
ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः ।
स्मृत्यर्थं अनुगम्यन्ते के चिदेव यथागमम् । । १.२६
। ।
शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् ।
अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः । । १.२७
। ।
नित्यत्वे कृतकत्वे वा तेषां आदिर्न विद्यते ।
प्राणिनां इव सा चैषा व्यवस्थानित्यतोच्यते । । १.२८
। ।
नानर्थिकां इमां कश्चिद्व्यवस्थां कर्तुं अर्हति ।
तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः । । १.२९
। ।
न चागमादृते धर्मस्तर्केण व्यवतिष्ठते ।
ऋषीणां अपि यज्ज्ञानं तदप्यागमपूर्वकम् । । १.३०
। ।
धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः ।
न तांल्लोकप्रसिद्धत्वात्कश्चित्तर्केण बाधते । । १.३१
। ।
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानां अनुमानेन प्रसिद्धिरतिदुर्लभा । । १.३२
। ।
निर्ज्ञातशक्तेर्द्रव्यस्य तां तामर्थक्रियां
प्रति ।
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते । । १.३३
। ।
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते । । १.३४
। ।
परेषां असमाख्येयं अभ्यासादेव जायते ।
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् । । १.३५
। ।
प्रत्यक्षं अनुमानं च व्यतिक्रम्य व्यवस्थिताः ।
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः । । १.३६
। ।
आविर्भूतप्रकाशानां अनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते । । १.३७
। ।
अतीन्द्रियानसंवेद्यान्पश्यन्त्यार्षेण चक्षुषा ।
ये भावान्वचनं तेषां नानुमानेन बाधते । । १.३८
। ।
यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते ।
स्थितं प्रत्यक्षपक्षे तं कथं अन्यो निवर्तयेत् । ।
१.३९ । ।
इदं पुण्यं इदं पापं इत्येतस्मिन्पदद्वये ।
आचण्डालमनुष्याणां अल्पं शास्त्रप्रयोजनम् । । १.४०
। ।
चैतन्यं इव यश्चायं अविच्छेदेन वर्तते ।
आगमस्तं उपासीनो हेतुवादैर्न बाध्यते । । १.४१
। ।
हस्तस्पर्शादिवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः । । १.४२
। ।
तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः । । १.४३
। ।
द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः ।
एको निमित्तं शब्दानां अपरोऽर्थे प्रयुज्यते । । १.४४
। ।
अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः ।
शब्दस्तत्रार्थरूपात्मा संबन्धं उपगच्छति । । १.४५
। ।
आत्मभेदं तयोः के चिदस्तीत्याहुः पुराणगाः ।
बुद्धिभेदादभिन्नस्य भेदं एके प्रचक्षते । । १.४६
। ।
अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।
तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् । । १.४७
। ।
वितर्कितः पुरा बुद्ध्या क्वचिदर्थे निवेशितः ।
करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते । । १.४८
। ।
नादस्य क्रमजातत्वान्न पूर्वो न परश्च सः ।
अक्रमः क्रमरूपेण भेदवानिव जायते । । १.४९
। ।
प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।
तत्प्रवृत्तिं इवान्वेति स धर्मः स्फोटनादयोः । । १.५०
। ।
आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते । । १.५१
। ।
आण्डभावं इवापन्नो यः क्रतुः शब्दसंज्ञकः ।
वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम् । । १.५२
। ।
यथैकबुद्धिविषया मूर्तिराक्रियते पटे ।
मूर्त्यन्तरस्य त्रितयं एवं शब्देऽपि दृश्यते । । १.५३
। ।
यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते ।
व्यवसायो ग्रहीतॄणां एवं तेष्वेव जायते । । १.५४
। ।
अर्थोपसर्जनीभूतानभिधेयेषु केषुचित् ।
चरितार्थान्परार्थत्वान्न लोकः प्रतिपद्यते । । १.५५
। ।
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानां एते पृथगवस्थिते । । १.५६
। ।
विषयत्वं अनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।
न सत्तयैव तेऽर्थानां अगृहीताः प्रकाशकाः । । १.५७
। ।
अतोऽनिर्ज्ञातरूपत्वात्किं आहेत्यभिधीयते ।
नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा । । १.५८
। ।
भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ ।
भेदकारेषु हेतुत्वं अविरोधेन गच्छतः । । १.५९
। ।
वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः । । १.६०
। ।
अग्निशब्दस्तथैवायं अग्निशब्दनिबन्धनः ।
अग्निश्रुत्यैति संबन्धं अग्निशब्दाभिधेयया । । १.६१
। ।
यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।
अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते । । १.६२
। ।
उच्चरन्परतन्त्रत्वाद्गुणः कार्यैर्न युज्यते ।
तस्मात्तदर्थैः कार्याणां संबन्धः परिकल्प्यते । । १.६३
। ।
सामान्यं आश्रितं यद्यदुपमानोपमेययोः ।
तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते । । १.६४
। ।
गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते ।
तस्याश्रिताद्गुणादेव प्रकृष्टत्वं प्रतीयते । । १.६५
। ।
तस्याभिधेयभावेन यः शब्दः समवस्थितः ।
तासामप्युच्चारणे रूपं अन्यत्तस्माद्विविच्यते
। । १.६६ । ।
प्राक्सम्ज्ञिनाभिसंबन्धात्संज्ञा रूपपदार्थिका ।
षष्ट्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते । । १.६७
। ।
तत्रार्थवत्त्वात्प्रथमा संज्ञाशब्दाद्विधीयते ।
अस्येते व्यतिरेकश्च तदर्थादेव जायते । । १.६८
। ।
स्वं रूपं इति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते ।
जातेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते । । १.६९
। ।
संज्ञिनीं व्यक्तिं इच्छन्ति सूत्रे ग्राह्यां अथापरे ।
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते । । १.७०
। ।
कार्यत्वे नित्यतायां वा के चिदेकत्ववादिनः ।
कार्यत्वे नित्यतायां वा के चिन्नानात्ववादिनः । । १.७१
। ।
पदभेदेऽपि वर्णानां एकत्वं न निवर्तते ।
वाक्येषु पदं एकं च भिन्नेष्वप्युपलभ्यते । । १.७२
। ।
न वर्णव्यतिरेकेण पदं अन्यच्च विद्यते ।
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश्चन । । १.७३
। ।
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात्पदानां अत्यन्तं प्रविभागो न कश्चन । । १.७४
। ।
भिन्नदर्शनं आश्रित्य व्यवहारोऽनुगम्यते ।
तत्र यन्मुख्यं एकेषां तत्रान्येषां विपर्ययः । । १.७५
। ।
स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते । । १.७६
। ।
स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते । । १.७७
। ।
शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते । । १.७८
। ।
शब्दस्योर्ध्वं अभिव्यक्तेर्वृत्तिभेदं तु वैकृतः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते । । १.७९
। ।
इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभयस्य वा ।
क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् । । १.८०
। ।
इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये । । १.८१
। ।
चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि ।
विषयेन्द्रिययोरिष्टा संस्कारः स क्रमो ध्वनेः । । १.८२
। ।
स्फोटरूपाविभागेन ध्वनेर्ग्रहणं इष्यते ।
कैश्चित्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः । । १.८३
। ।
यथानुवाकः श्लोको वा सोढत्वं उपगच्छते ।
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते । । १.८४
। ।
प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा ।
ध्वनिप्रकाशिते शब्दे स्वरूपं अवधार्यते । । १.८५
। ।
नादैराहितबीजायां अन्त्येन ध्वनिना सह ।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते । । १.८६
। ।
असतश्चान्तराले याञ् छब्दानस्तीति मन्यते ।
प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः । । १.८७
। ।
भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः ।
क्रमोपसृष्टरूपा वाग्ज्ञानं ज्ञेयव्यपाश्रयम् । । १.८८
। ।
*ज्ञेयेन न विना ज्ञानं व्यवहारेऽवतिष्ठते ।
नालब्धक्रमया वाचा कश्चिदर्थोऽभिधीयते । । १.८९ * । ।
यथाद्यसंख्याग्रहणं उपायः प्रतिपत्तये ।
संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः । । १.९०
। ।
प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये ।
तेषां अत्यन्तभेदेऽपि संकीर्णा इव शक्तयः । । १.९१
। ।
यथैव दर्शनैः पूर्वैर्दूरात्संतमसेऽपि वा ।
अन्यथाकृत्य विषयं अन्यथैवाध्यवस्यति । । १.९२
। ।
व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते । । १.९३
। ।
यथानुपूर्वीनियमो विकारे क्षीरबीजयोः ।
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः । । १.९४
। ।
भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् ।
निर्भागेष्वभ्युपायो वा भागभेदप्रकल्पनम् । । १.९५
। ।
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
कैश्चित्व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः । । १.९६
। ।
अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः ।
उपलब्धौ निमित्तत्वं उपयाति प्रकाशवत् । । १.९७ । ।
न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता ।
आश्रयैरपि नित्यानां जातीनां व्यक्तिरिष्यते । । १.९८
। ।
देशादिभिश्च संबन्धो दृष्टः कायवतां अपि ।
देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः । । १.९९
। ।
ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा ।
व्यङ्ग्यव्यञ्जकभावेऽपि तथैव स्फोटनादयोः । । १.१००
। ।
सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।
निमित्तं नियतं लोके प्रतिद्रव्यं अवस्थितम् । । १.१०१
। ।
प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते ।
तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके । । १.१०२
। ।
विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।
पर्वतादिसरूपाणां भावानां नास्ति संभवः । । १.१०३
। ।
तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु ।
वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते । । १.१०४
। ।
यः संयोगविभागाभ्यां करणैरुपजन्यते ।
स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः । । १.१०५
। ।
अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।
परस्तु शब्दसंतानः प्रचयापचयात्मकः । । १.१०६
। ।
दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते ।
घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते । । १.१०७
। ।
द्रव्याभिघातात्प्रचितौ भिन्नौ दीर्घप्लुतावपि ।
कम्पेतूपरते जाता नादा वृत्तेर्विशेषकाः । । १.१०८
। ।
अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे ।
स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव । । १.१०९
। ।
वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।
कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः । । १.११०
। ।
*लब्धक्रियाः प्रयत्नेन वक्तुरिच्च्चानुवर्तिना ।
स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते । । १.१११ * । ।
*तस्य कारणसामर्थ्याद्वेगप्रचयधर्मणः ।
संनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तयः । । १.११२ * । ।
*अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः ।
छायातपतमःशब्द- भावेन परिणामिनः । । १.११३ * । ।
*स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः । । १.११४ * । ।
*अथायं आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते । । १.११५ * । ।
*स मनोभावं आपद्य तेजसा पाकं आगतः ।
वायुं आविशति प्राणं अथासौ समुदीर्यते । । १.११६ * । ।
*अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ।
तद्धर्मेण समाविष्टस्तेजसैव विवर्तते । । १.११७ * । ।
*विभजन्स्वात्मनो ग्रन्थीञ् छ्रुतिरूपैः पृथग्विधैः ।
प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते । । १.११८ * । ।
*आत्मा बुद्ध्या समर्थ्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निं आहन्ति स प्रेरयति मारुतम् । । १.११९ * । ।
अजस्रवृत्तिर्यः शब्दः सूक्ष्मत्वान्नोपलभ्यते ।
व्यजनाद्वायुरिव स स्वनिमित्तात्प्रतीयते । । १.१२०
। ।
तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता ।
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते । । १.१२१
। ।
शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी ।
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते । । १.१२२
। ।
शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।
तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः । । १.१२३
। ।
(षड्गादिभेदः अ)
शब्दस्यपरिणामोऽयं इत्याम्नायविदो विदुः ।
छन्दोभ्य एव प्रथमं एतद्विश्वं प्रवर्तते । । १.१२४
। ।
विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः ।
छन्दोमयीभिर्मात्राभिर्बहुधैव विवेश तम् । । १.१२५
। ।
साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः । । १.१२६
। ।
प्राजापत्यं महत्तेजस्तत्पात्रैरिव संवृत्तम् ।
शरीरभेदे विदुषां स्वां योनिं उपधावति । । १.१२७
। ।
यदेतन्मण्डलं भास्वद्धाम चित्रस्य राधसः ।
तद्भावं अभिसंभूय विद्यायां प्रविलीयते । । १.१२८
। ।
इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते । । १.१२९
। ।
आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानां अभिघातश्च न विना शब्दभावनाम् । । १.१३०
। ।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धं इव ज्ञानं सर्वं शब्देन भासते । । १.१३१
। ।
वाग्रूपता चेतुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी । । १.१३२
। ।
सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।
तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते । । १.१३३
। ।
सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते ।
तन्मात्रां अव्यतिक्रान्तं चैतन्यं सर्वजातिषु । । १.१३४
। ।
अर्थक्रियासु वाक्सर्वान्समीहयति देहिनः ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्टकुड्यवत् । । १.१३५ । ।
*भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा ।
आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा । । १.१३६ * । ।
*एकत्वं अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः ।
पृथक्प्रत्यवभासन्ते वाग्विभागा गवादयः । । १.१३७ * । ।
*षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् ।
ते मृत्युं अतिवर्तन्ते ये वै वाचं उपासते । । १.१३८ * । ।
प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते । । १.१३९
। ।
*प्रविभज्यात्मनात्मानं सृष्ट्वा भावान्पृथग्विधान् ।
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते । । १.१४० * । ।
स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।
तथैव रूढतां एति तया ह्यर्थो विधीयते । । १.१४१
। ।
अत्यन्तं अतथाभूते निमित्ते श्रुत्यपाश्रयात् ।
दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा । । १.१४२
। ।
अपि प्रयोक्तुरात्मानं शब्दं अन्तरवस्थितम् ।
प्राहुर्महान्तं ऋषभं येन सायुज्यं इष्यते । । १.१४३
। ।
तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।
तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्मामृतं अश्नुते । । १.१४४
। ।
*प्राणवृत्तिं अतिक्रान्ते वाचस्तत्त्वे व्यवस्थितः ।
क्रमसंहारयोगेन संहृत्यात्मानं आत्मनि । । १.१४५ * । ।
*वाचः संस्कारं आधाय वाचं ज्ञाने निवेश्य च ।
विभज्य बन्धनान्यस्याः कृत्वा तां छिन्नबन्धनाम् । । १.१४६ * । ।
*ज्योतिरान्तरं आसाद्य च्छिन्नग्रन्थिपरिग्रहः ।
कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन्प्रवर्तते । । १.१४७ * । ।
न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता । । १.१४८
। ।
अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि ।
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते । । १.१४९
। ।
ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते ।
धर्मो ज्ञानस्य हेतुश्चेत्तस्याम्नायो निबन्धनम् । । १.१५०
। ।
वेदशास्त्राविरोधी च तर्कश्चक्शुरपश्यताम् ।
रूपमात्राद्धि वाक्यार्थः केवलं नातितिष्ठति । । १.१५१
। ।
सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी ।
इति न्यायो बहुविधस्तर्केण प्रविभज्यते । । १.१५२
। ।
शब्दानां एव सा शक्तिस्तर्को यः पुरुषाश्रयः ।
स शब्दानुगतो न्यायोऽनागमेष्वनिबन्धनः । । १.१५३
। ।
*यदुदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् । । १.१५४ * ।
।
रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः ।
शब्दास्तथैव दृश्यन्ते विषापहरणादिषु । । १.१५५
। ।
यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् ।
साधूनां साधुभिस्तस्माद्वाच्यं अभ्युदयार्थिनाम् । । १.१५६
। ।
सर्वोऽदृष्टफलानर्थानागमात्प्रतिपद्यते ।
विपरीतं च सर्वत्र शक्यते वक्तुं आगमे । । १.१५७
। ।
साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः ।
अविच्छेदेन शिष्टानां इदं स्मृतिनिबन्धनम् । । १.१५८
। ।
वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् ।
अनेकतीर्थभेदायास्त्रय्या चाचः परं परम् । । १.१५९
। ।
*गौरिव प्रक्षरत्येका रसं उत्तमशालिनी ।
दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता । । १.१६० * । ।
*एतयोरन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः ।
प्राणापानान्तरे नित्यं एका सर्वस्य तिष्ठति । । १.१६१ * । ।
*अन्या त्वप्रेर्यमाणैव विना प्राणेन वर्तते ।
जायते हि ततः प्राणो वाचं आप्याययन्पुनः । । १.१६२ * । ।
*प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी ।
सर्वस्योच्छ्वासं आसाद्य न वाग्वदति कर्हि चित् । । १.१६३ *
। ।
*घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।
तयोरपि च घोषिण्या निर्घोषैव गरीयसी । । १.१६४ * । ।
*स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना । । १.१६५ * । ।
*केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी ।
प्राणवृत्तिं अतिक्रम्य मध्यमा वाक्प्रवर्तते । । १.१६६ * । ।
*अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी । । १.१६७ * । ।
*पीयूषापूर्यमाणापि नित्यं आगन्तुभिर्मलैः ।
अन्त्या कलेव सोमस्य नात्यन्तं अभिधीयते । । १.१६८ * । ।
*यस्यां दृष्टस्वरूपायां अधिकारो निवर्तते ।
पुरुषे षोडशकले तां आहुरमृतां कलाम् । । १.१६९ * । ।
*प्राप्तोपरागरूपा सा विप्लवैरनुषङ्गिभिः ।
वैखरी सत्त्वमात्रेव गुणैर्न व्यवकीर्यते । । १.१७० * । ।
तद्विभागाविभागाभ्यां क्रियमाणां अवस्थितम् ।
स्वभावज्ञैस्तु भावानां दृश्यन्ते शब्दशक्तयः । । १.१७१
। ।
अनादिं अव्यवच्छिन्नां श्रुतिं आहुरकर्तृकाम् ।
शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः । । १.१७२
। ।
अविभागाद्विवृत्तानां अभिख्या स्वप्नवच्छ्रुतौ ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः । । १.१७३
। ।
कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्म- शास्त्रैस्तेषां विशुद्धयः । । १.१७४ । ।
शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्ष्यते ।
तं अपभ्रंशं इच्छन्ति विशिष्टार्थनिवेशिनम् । । १.१७५
। ।
अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।
निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थितम् । । १.१७६
। ।
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः ।
तादात्म्यं उपगम्येव शब्दार्थस्य प्रकाशकाः । । १.१७७
। ।
न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ।
ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः । । १.१७८
। ।
अंब्वंब्विति यथा बालः शिक्षमाणोऽपभाषते ।
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः । । १.१७९
। ।
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते । । १.१८०
। ।
पारंपर्यादपभ्रंशा विगुणेष्वभिधातृषु ।
प्रसिद्धिं आगता येन तेषां साधुरवाचकः । । १.१८१
। ।
दैवी वाग्व्यतिकीर्णेयं अशक्तैरभिधातृभिः ।
अनित्यदर्शिनां त्वस्मिन्वादे बुद्धिविपर्ययः । । १.१८२
। ।
उभयेषां अविच्छेदादन्यशब्दविवक्षया ।
योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः । । १.१८३
। ।
Subscribe to:
Posts (Atom)