Wednesday, 20 January 2016

संस्कृत शिक्षणे गुणात्मकं संशोधनम्

संस्कृत शिक्षणे गुणात्मकं संशोधनम्
          संस्कृतज्ञानमन्तरेण भारतीया संस्कृतेर्ज्ञानमसम्भवमिति सुविदितमतेत् सर्वेषां विद्वन्मताम्। अतः संस्कृतेः संरक्षणे संस्कृतभाषायाः ज्ञानमनिवार्यं यतोहि समग्रमेव भारतीयं वाङ्मयं संस्कृतमाश्रित्यैवावतिष्ठते इति सुविदितमेव। संस्कृत्या वाङ्मयेन च विहीनस्य देशस्य अधःपतनमनिवार्यम्। द्वयोरेवैतयोः संरक्षणाय संवर्धनाय च संस्कृतभाषाशिक्षणे समयानुकूलं संशोधनमावश्यकम्। अतोऽत्र केषाञ्चन संशोधनां विवेचनमधः प्रस्तूयते –
Ø क्लिष्टा दुरूहा दुर्बोधा संस्कृतभाषा इति जनानां विचारः प्रशमं नेयः। अस्य कृते संस्कृतसम्भाषणशिविराणि सर्वत्र आयोजितव्यानि।
Ø संस्कृतभाषायाः व्याकरणं सरलं कार्यम्। व्याकरणनियमाः अनुवादद्वारा प्रयोगशैल्या च शिक्षणीयाः।
Ø संस्कृतशिक्षणे गुणात्मकतां वर्धनाय आधुनिकयुगेऽस्मिन् शिक्षणं आधुनिकप्रविधिभिः सह भाव्यम्। तदर्थं स्वाभाविकतायाः सिद्धान्तः, रुचेः सिद्धान्तः, शिक्षणसूत्राणां सिद्धान्तः इत्यादयः सिद्धान्ताः व्यवहर्तव्याः।
Ø संस्कृतशिक्षणे छात्राणां स्तरस्यापि ध्यानं प्रदाय शिक्षामनोविज्ञानस्य नियमान् परिपाल्य अध्यापकेन अध्यापनीयः।
Ø संस्कृतभाषायाः विवर्धनाय संस्कृतस्यानेके महार्घाः ग्रन्थाः विलुप्ताः जीर्णाः शीर्णाः वा यत्र तत्रोपलभ्यन्ते, तेषामुद्धारः करणीयः।
Ø सर्वेषां प्रमुखानामुपयोगिनां च संस्कृतग्रन्थानां सानुवादः तथा च अल्पमूल्यकं संस्करणं प्रकाशितं स्यात्।
Ø शिक्षणं रुचिकरं विधातुं दृश्यश्रव्योपकरणानां प्रयोगः कर्तव्यः।
Ø संस्कृतस्य नैकविधविषयाणां प्रयोगमुखेन अध्ययनं भवेत्, यथा – भाषायाः व्यवहारकाले व्याकरणस्य प्रयोगः, ग्रहनक्षत्राणां अध्ययनसमये ज्योतिषशास्त्रस्यापि अध्ययनं स्यात्

Ø संगणकस्य माध्यमेन कथासाहित्यं रुचिकरं कुर्यात्, येन ज्ञानाधिगमकाले बालान् प्रमोदः जायेत्।

No comments:

Post a Comment