स्थानिवद्भावविमर्श:
व्याक्रियन्ते परिष्क्रियन्ते शब्दा अनेनेति व्याकरणम्१। लौकिक-वैदिक-उभयविधशब्दयो-रनुशासनं क्रियतेऽनेन२। इदं वेदपुरुषस्य मुखरूपेण स्वीक्रियते-
“मुखं व्याकरणं स्मृतम्”३।
षट्सु वेदाङ्गेषु व्याकरणं प्रमुखस्थानं भजते४,
अत: षट्स्वङ्गेषु व्याकरणं सर्वप्रथमं सर्वप्रधानञ्चाङ्गं मन्यते भर्तृहरिणा-
“प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं
बुधा:”५॥
अतएव व्याकरणस्य वैशिष्ट्यं महत्ता च विद्वद्भि:
स्वीकृता –
“काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्”६॥
१. वि+आङ्+कृ+ल्युट् (‘करणाधिकरणयोश्च’- पा.अ.-३.३.११७) २. शब्दानुशासनं नाम शास्त्रम्
अधिकृतम् वेदितव्यम् । केषां शब्दानाम्? लौकिकानां
वैदिकानाञ्च। (महाभाष्यम्- पस्पशाह्निकम्)
३.
पाणिनीयशिक्षा(कारिका-४२)
४. प्रधानञ्च षट्स्वङ्गेषु
व्याकरणम्। प्रधाने च कृतो यत्नः
फलवान् भवति । (महाभाष्यम्- पस्पशाह्निकम्)|
५. वाक्यपदीयम्(ब्रह्मकाण्डम्, कारिकासंख्या-११)
६.………………………………… ७.
इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः॥(वोपदेव:)
८. स्वरसिद्धान्तचन्द्रिका
(कारिका-१५)
अष्टाध्यायीनामके
ग्रन्थे महर्षिपाणिनिना प्रायशः चतुःसहस्रसूत्राणि विरचितानि। विद्वद्भि: सूत्रस्य
लक्षणं कथ्यते-
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदु:९॥
अल्पाक्षरत्वे
सति असन्दिग्धम्, सार्थकम्, विश्वतोमुखम्= सूत्रस्य प्रवृत्ति: व्यापकक्षेत्रे स्यात्,
गतिराहित्यरहितम्, अनिन्दनीयम्- आभि: विशेषताभि: युक्तानि पाणिनिप्रणीतानि सूत्राणि
। तानि च सूत्राणि षड्-विधानि –
संज्ञा च परिभाषा च विधिर्नियम एव च। अतिदेशोऽधिकारश्च
षड्-विधं सूत्रलक्षणम्१०,११॥
षड्-विधेषु
सूत्रेष्वतिदेशलक्षणं विचार्यते-
“अतिदिश्यन्ते तुल्यतया कार्याणि विधीयन्ते सोऽतिदेश:॥”
अतिदेशसूत्रेण तुल्यतया कार्यं विधीयते। यथा- ‘सार्वधातुकमपित्’१२ इति सूत्रेण पिद्भिन्नं सार्वधातुकं ङिद्वद्
क्रियते।
वतिप्रत्ययघटितत्वमतिदेशसूत्रस्य
लक्षणम्।।
९. वैयाकरणसिद्धान्तकौमुदी(बालमनोरमा,
पृष्ठसंख्या-७)
१०. वैयाकरणसिद्धान्तकौमुदी
(बालमनोरमा, पृष्ठसंख्या-७)
११. तत्र च नामकरणं सञ्ज्ञा। अनियमे
नियमकारिणी परिभाषा। कर्तव्यत्वेनोपदेशो विधिः। बहुत्र प्राप्तौ संकोचनं नियमः। अन्यतुल्यत्वविधानमतिदेशः। उत्तरप्रकरणव्यापी
अधिकारः। (वै.सि.कौ.- बा.म.
पृष्ठसंख्या-७)
१२. पाणिनीयाष्टाध्यायी (१.२.४)
१३. पाणिनीयाष्टाध्यायी (३.४.८५)
१४. पाणिनीयाष्टाध्यायी
(७.१.९५)
‘आरोपबोधजनकत्वमतिदेशसूत्रत्वम्॥’
‘अन्यस्य
धर्मस्यान्यस्मिन्नारोपोऽतिदेशः॥’
अतिदेशसूत्रेणान्यस्य वस्तुनः धर्मस्यान्यस्मिन्वस्तुनि
आरोपः क्रियते। यथा- ‘अस्तेर्भूः’१५
इति सूत्रे ‘अस्’ स्थाने यः ‘भू’ आदेशः, तस्मिन् ‘स्थानिवदादेशोऽनल्विधौ’१६ इति अतिदेशसूत्रेण धातुत्वमिति धर्मस्यारोपः
क्रियते।
पाणिनिप्रणीतेऽष्टाध्यायीग्रन्थेऽष्टादशाधिकैकशतमतिदेशसूत्राणि
सन्ति। वैयाकरणैरतिदेश- सूत्राणि सप्तविधानि मतानि- १. निमित्तातिदेशः, २. व्यपदेशातिदेशः,
३. तादात्म्यातिदेशः, ४. शास्त्रातिदेशः, ५. कार्यातिदेशः, ६. रूपातिदेशः, ७. अर्थातिदेशश्च
।
कार्यातिदेशात्मकमिदं सूत्रम्। अस्य प्रयोजनम्-
गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्धर्मलाभो लोकतः सिद्ध:।१७
कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्ध: । इह व्याकरण- शास्त्रे ‘स्वं रुपं
शब्दस्याशब्दसंज्ञे’१ति वचनात् स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थं
“स्थानिवदादेश०” इत्यारब्धम्।
“स्थानिवदादेशोऽनल्विधौ”१९
१५. पाणिनीयाष्टाध्यायी(२.४.५२) १६. पाणिनीयाष्टाध्यायी(१.१.५५) १७. “गुरोः स्थाने शिष्यो याज्यकुलानि
गत्वाऽग्रासनादीनि लभते” इति लोकन्यायेन……।”(लघुशब्देन्दुशेखर:) १८. पाणिनीयाष्टाध्यायी(१.१.६७) १९. पाणिनीयाष्टाध्यायी(१.१.५५)
क्रियते- 'स्थानिना तुल्यः स्थानिवद्',
"तेन तुल्यं क्रिया चेद्वतिः"२०
इति पाणिनिसूत्रेण वतिप्रत्ययः। स्थानं नाम प्रसङ्गः। यस्य स्थानेऽन्यद् विधीयते तत्
स्थानी। येन विधीयमानेनान्यत् प्रसक्तं निवर्तते स आदेश:। आदेश: स्थानिना तुल्यो भवति
अर्थात् स्थानिधर्मको भवतीत्यर्थः। अलिति वर्णपर्याय:। विधीयत इति विधिः कार्यम्। अलाश्रयो
विधिः अल्विधिः। न अल्विधि: अनल्विधिः। अत: सूत्रार्थो भवति-
"आदेश: स्थानिवत्स्यात्, न नु स्यान्यलाश्रयविधौ।"२१
अर्थाद्
आदेश: स्थानिधर्मको भवति, अलाश्रयभिन्ने कार्ये कर्त्तव्य इति।
उदाहरणानि- काशिकायां
वामनजयादित्येन अस्य सूत्रस्य प्रयोजनमुद्दिष्टम्-
"धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशा:"२२
अस्यायमर्थः धातुः, अङ्गं, कृत्, तद्धित:,
अव्ययं, सुप्, तिङ्, पदम् इत्यादिषु स्थानिषु य आदेशः, सः तद्वद् भवतीति।
२. अङ्गादेशोऽङ्गवद्
भवति- अङ्गस्य२५ स्थाने य आदेश:, सोऽङ्गवद्
भवति- ‘केन’ ‘काभ्याम्’
‘कैः’ इत्यत्र 'किमः क:'२६
इति सूत्रेण किमिति अङ्गस्य ‘क’ आदेशः, सोऽङ्गवत् स्यात्। अङ्गवत् कृतायाम् अङ्गविहितकार्याणि
इनदीर्घत्वैस्भावा: भवन्ति।
३. कृतादेश:
कृद्वद् भवति- कृदिति२७ स्थाने
य आदेश:, सः कृद्वद् भवति- ‘प्रकृत्य’ ‘प्रहृत्य’ अत्र ‘समासेऽनञ्पूर्वे
क्त्वो ल्यप्’२८ इति सूत्रेण ‘क्त्वो’ ल्यबादेशे कॄते स्थानिवदिति सूत्रेण
‘क्त्वा’ इत्यस्मिन् कृत्वधर्मः सो ल्यबित्यस्मिन्नतिदिश्यते । अतिदिष्टकृतायां ‘हृस्वस्य पिति कृति तुक्’ २९ इति
सूत्रेण कृत्विहित्कार्याणि तुगागमो भवन्ति।
४. तद्धितादेशः
तद्धितवद् भवति- ‘तद्धित’३०
इति स्थाने य आदेशः, सः तद्धितवद् भवति- ‘दाधिकम्’ इत्यत्र ‘ठक्’ इति तद्धितस्य स्थाने
इकादेशो भवति, सः तद्धितवद्। अतिदिष्टकृतायां ‘कृत्तद्धितसमासाश्च’३१ इति सूत्रेण तद्धितविहितप्रातिपदिकसंज्ञेत्यादीनि
कार्याणि भवन्ति।
६. सुबादेशः सुब्वद् भवति- ‘सुपः’ स्थाने य आदेशः भवति, सः सुब्वद्- ‘वृक्षाय’
'प्लक्षाय' इत्यत्र ‘ङेर्यः’३५ इति सूत्रेण 'ङे’ इति सुपः स्थाने ‘य’ इत्यादेशः, सः सुब्वद्
भवति। ‘सुप्’ कृतायाम् ‘सुपि च’३६
इति सूत्रेण दीर्घत्वं भवति।
७. तिङादेशस्तिङ्वद् भवति- ‘तिङ्’ इत्यस्य स्थाने य आदेश:, सः तिङ्वद् भवतीत्यर्थः-‘अकुरुताम्’
‘अकुरुतम्’ अत्र ‘तस्’ ‘थस्’ इत्यनयोः तिङ्संज्ञकयोः स्थाने "तस्थस्थमिपाम्०"३७ इति सूत्रेण ‘ताम्’ ‘तम्’ इत्यादेशौ
भवतः, तौ तिङ्वद्। तत्कृतायां ‘सुप्तिङन्तं
पदमि’३८ ति सूत्रेण पदसंज्ञा विधीयते।
८. पदादेशः पदवद् भवति- पदस्य
स्थाने य आदेशः, सः पदवद् भवति- ‘ग्रामो वः स्वम्’ ‘जनपदो नः स्वम्’ इत्यत्र ‘बहुवचनस्य वस्नसौ’३९ इति सूत्रेण
‘युष्मदस्मदोः’ पदयोः स्थाने ‘वस्’ ‘नश्च’ आदेशौ भवतः। तौ आदेशौ पदवत् स्यादतः स्थानिवदिति
सूत्रम्। तत्कृतायां ‘पदस्ये’४०
ति सूत्रेण रुत्वमिति भवति।
शास्त्रेऽस्मिन् सञ्ज्ञाकरणं सञ्ज्ञीनां बोधाय भवति।
अत: ‘आङो यमहनः’४४ इति सूत्रेण ‘हन्’ इति सञ्ज्ञया ‘वध’ इति सञ्ज्ञी-ग्रहणं
भविष्यति। तेन हन्तेरात्मनेपदं न स्याद्, वधेरेव
स्याद्, परन्तु वत्करणे पुनः क्रियमाणे न दोषो भवति। स्थानिकार्यमादेशेऽतिदिश्यते,
गुरुवद् गुरुपूत्रे इति यथा।
अथादेशग्रहणं
किमर्थम्- "स्थानिवदनल्विधौ" इति क्रियमाणे क: इदानीं
स्थानिवद् स्याद् तथा च आनुमानिकस्यापि आदेशस्य स्थानिवद्भावो यथा स्याद् । यथा- पचतु।
‘एरु:’॥(अ.३/४/८६)
विधिग्रहणं किमर्थम्- अस्य व्याख्यानं
कुर्वन् महाभाष्ये भगवान् पतञ्जलिः प्राह-
"सर्वविभक्त्यन्तः समासो यथा विज्ञायेत- अल: परस्य विधिः अल्विधि:। अलो
विधिः अल्विधि:। अलि विधिः अल्विधि:। अला विधिः अल्विधिरिति।"४५
४. अला विधिः अल्विधिः - अला विधौ यथा- ‘व्यूढोरस्केन’ इत्यत्र ‘विसर्जनीयस्य सः’५० इति विसर्गस्थानिकस्य
सकारस्य विसर्गमाश्रित्य 'अड्व्यवाय०'५१
इति णत्वं प्राप्तं भवति,तन्निषिध्यते।
पूर्वसूत्रेण अल्विधौ आदेशः स्थानिवद् मा
स्यादिति भणितम्। अल्विधावपि केषुचित् स्थलेषु आदेशः स्थानिवद् स्यादिति उक्तम्-
“अचः परस्मिन् पूर्वविधौ”५२
त्रिपदात्मकमिदं सूत्रम्। अच
इति प्रथमान्तम्। परस्मिन् पूर्वविधौ चेति सप्तम्यन्तं पदम्। पूर्वसूत्रेणात्र स्थानिवदादेश
इत्यनुवर्तते। अच इत्येतदादेश इत्यनेनान्वेति अच आदेश इति। परस्मिन्निति सति सप्तमी।
ततश्च परनिमित्तक इति लभ्यते। तच्च आदेशस्य विशेषणम्। पूर्वविधौ- विधीयत इति विधिः।
पूर्वस्यविधिः पूर्वविधिः। पूर्वत्वमत्र यद्यपि सावधिकम्। त्रयं चात्र संनिहितम्- स्थानी,
आदेशः, परनिमित्तं चेति। अतः सूत्रार्थो भवति-
“परनिमित्तोऽजादेशः स्थानिवत्स्यात्। स्थानिभूतादचः
पूर्वत्वेन दृष्टस्य विधौ कर्त्तव्ये”५३।
उदाहरणानि-
वृद्धिर्न भवति।
प्रत्युदाहराणि- सूत्रेऽस्मिन् अच इति किम्? ‘प्रश्नः’
इत्यत्र प्रच्छ्धातोर्नङ्प्रत्यये ‘च्छ्वोः
शुडनुनासिके’५७ इति सूत्रेण छकारस्य शकारः परनिमित्तकः, ‘छे च’५८ इति सूत्रेण तुकि कर्त्तव्ये
सूत्रेऽस्मिन् ‘अच’ इति पदयोजनेन स्थानिवद्भावाद् न भवति। अत: अच इति ग्रहणं कृतम्।
परस्मिन्निति किम्? युवजानिः- ‘युवतिर्जाया यस्य सः’ इति विग्रहे ‘युव जाया’ इति
स्थितौ ‘जायाया निङ्’५९ इति
निङ् आदेशः, स आदेशः न परनिमित्तक, अजादेशस्य अभावाद्, तेन ‘लोपो व्योर्वलि’६० इति सूत्रेण यलोपे न स्थानिवद्भवति। अत:
परस्मिन्निति ग्रहणम्।
पूर्वविधाविति
किम्? पूर्वविधौ एव अजादेशः स्थानिवद् स्यादतः- ‘हे गौ’ इत्यत्र ‘गोतो णित्’६१ ‘अचो
ञ्णिति’६२ इति सूत्रेण वृद्धिः-
अत्र औकारोऽजादेशः परनिमित्तकश्च,
‘एङ् हृस्वात् सम्बुद्धेः’६३ इति सूत्रेण सुलोपो भवति, परन्तु
अयं पूर्वविधि: नास्ति, अपितु परविधि: वर्तते। अतः अजादेश: स्थानिवदिति न भवति।
पूर्वसूत्रेण प्राप्ते सति केषुचित् स्थलेषु स्थानिवत्
माभूदित्यर्थम् आह-
“न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु”६४॥
‘स्थानिवदादेश’ इति
‘अच: परस्मिन्नि’ति चानुवर्तते। पदान्त..............विधिषु इत्यत्र द्वन्द्व- समासः-
‘पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च
चर्चेति’ द्वन्द्वः। तेषां विधय: - विधानानि (कर्मणि षष्ठ्यासमासः)। ततश्च पदान्तादिषु
विधेयेषु इति सूत्रार्थो लभ्यते। ‘द्वन्द्वादौ
द्वन्द्वमध्ये द्वन्द्वान्ते च श्रूयमाणपदं प्रत्येकमभिसम्बध्यते’६५
इति परिभाषया विधिशब्दस्य प्रत्येकेन सहान्वय:-पदान्तविधौ द्विर्वचनविधावित्यादि, अत:
सूत्रार्थो लभ्यते-
"पदस्य
चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवद्। इति स्थानिवद्भाव-
निषेध:६६।" अर्थात् पदस्य
चरमावयवे द्विर्वचनादौ च कार्ये परनिमित्तोऽजादेश: स्थानिवत् न भवतीति सूत्रार्थः।
उदाहरणानि-
१. पदान्तविधिः- पदान्तविधिं प्रत्यजादेशो
न स्थानिवद् भवति- ‘कौ स्तः’ ‘यौ स्तः’ ‘कानि
सन्ति’ ‘यानि सन्ति’ इत्यत्र "श्नसोरल्लोपः"६७
इति सूत्रेण ‘क्ङिति सार्वधातुक’ इति परनिमित्तकः, स पूर्वविधावादेशे
यणादेशे च कृते स्थानिवत् स्यात्, "न
पदान्त०"६८ इति सूत्रेण निषिध्यते।
६५. वैयाकरणसिद्धान्तकौमुदी (बालमनोरमा -कारकप्रकरणम्)
६६. वैयाकरणसिद्धान्तकौमुदी(पृष्ठसंख्या-८०) ६७.
पाणिनीयाष्टाध्यायी(६.४.१११) ६८. पाणिनीयाष्टाध्यायी(१.१.५८)
६९. पाणिनीयाष्टाध्यायी(८.४.४७)
द्विर्वचनं न स्यादस्माद्
वचनाद्भवति।
३. वरेविधिः-
वर इत्यनेन वरे योऽजादेशः, स विवक्षितः- आर्षो द्वन्द्वः (सप्तम्या अलुक्च)। वरे योऽजादेशः
स पूर्वविधिं प्रति न स्थानिवद् भवति- "यायावरः" यातेर्यङन्ताद् 'यश्च यङः'७० इति वरचि कृते 'अतो लोपः'७१ परनिमित्तक:, तस्य
स्थानिवत्वाद् "आतो लोप इटि च"७२
इत्याकार- लोपः स्यादस्माद् वचनाद् न भवति।
४. यलोपविधिः- यलोपविधिं प्रत्यजादेशो न स्थानिवद् भवति- 'कण्डूति:'
‘कण्डूञ् गात्र- विघर्षणे’७३
इति धातो: क्तिचि "अतो लोपः"७४
परनिमित्तक:, “लोपो व्योर्वलि”७५
इति यलोपे स्थानिवत्कृते यलोपो न भवति। यलोपः स्यादतः अनेन सूत्रेण स्थानिवत्वं निषिध्यते।
५. स्वरविधि:- स्वरविधिं
प्रत्यजादेशो न स्थानिवद् भवति- चिकीर्षक: इत्यत्र “ण्वुल्तृचौ”७६ इति सूत्रेण ण्वुलि कृते "अतो लोप:"७७ परनिमित्तको, लिति प्रत्ययात् पूर्वमुदात्तमिति स्वरे कर्तव्ये न स्थानिवद् भवतीत्यर्थः।
‘क्ङिति सार्वधातुक’ इति परनिमित्तकः, "अनुस्वारस्य ययि परसवर्णः"८० इति परसवर्णे कर्त्तव्ये
न स्थानिवद् भवति। अल्लोपस्य स्थानिवद्भावे कृते अनुस्वारस्य प्राप्तिर्न भवति, किन्तु
स्थानिवत्व- स्य निषेधेन अनुस्वारे कृते 'शिं+ढि' इति अवस्थायाम् अल्लोपस्य स्थानिवत्वेन
परसवर्णे बाधा आयाति, अतः स्थानिवत्वं निषिध्यते।
७. अनुस्वारविधिः- अनुस्वारविधिं प्रत्यजादेशो न स्थानिवद् भवति- ‘शिंषन्ति’
इत्यत्र "नश्चा पदान्तस्य झलि"८१
इत्यनुस्वारे कर्तव्ये, "श्नसोरल्लोपः"८२
इति अकारलोपः न स्थानिवद् भवति।
८. दीर्घविधि:- दीर्घविधिं प्रत्यजादेशो न स्थानिवद् भवति- ‘प्रतिदीव्ना’
‘प्रतिदीव्ने’ इत्येतस्य भस्य इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च "अल्लोपोऽनः"८३ इत्यकारलोपः
परनिमित्तकः,तस्य स्थानिवद्भावनिषेधेन "हलि
च"८४ इति दीर्घत्वं भवति।
८०. पाणिनीयाष्टाध्यायी(८.४.५८)
८१. पाणिनीयाष्टाध्यायी(८.२.२४)
८२. पाणिनीयाष्टाध्यायी(६.४.१११) ८३. पाणिनीयाष्टाध्यायी(६.४.१३४)
८४. पाणिनीयाष्टाध्यायी(८.२.७७) ८५. पाणिनीयाष्टाध्यायी(२.४.३९)
८६. पाणिनीयाष्टाध्यायी(६.४.१००)
८७.
पाणिनीयाष्टाध्यायी(८.२.२६)
८८. पाणिनीयाष्टाध्यायी(८.२.४०)
८९. पाणिनीयाष्टाध्यायी(८.४.५३)
१०.
चर्विधिः- चर्विधिं प्रत्यजादेशो
न स्थानिवद्भवति- ‘जक्षतुः’ लिड्-द्विवचनस्य अदेर्घस्लादेश:, “गमहनजनखनघसाम्०”९० इत्युपधालोपः
द्विर्वचनम्, अभ्यासकार्यम्। तत्रोपधालोपस्य स्थानिवत्वप्रतिषेधेन “खरि च”९१ इति घकारस्य चर्त्वं
भवति। "शासिवसिघीनां च"९२
इति षत्वम्।
"द्विर्वचनेऽचि"९३
अस्य सूत्रस्य व्याखाने मतैक्यं नास्ति।
प्रथमं मतं काशिकाकाराणां वर्तते- ये "द्विर्वचनेऽचि"
अस्य सूत्रस्य व्याख्यानं स्थानिवदिति बुद्ध्या
कुर्वन्ति। द्वितीयं मतं सिद्धान्त-कौमुदीकाराणां वर्तते- येऽस्य सूत्रस्य व्याख्याने
'अजादेशः न भवतीति' बुद्ध्या कुर्वन्ति। प्रथमं काशिकाराणां मतं प्रस्तूयते- सूत्रेऽस्मिन्
पदद्वयम्। द्विर्वचने अचि च सप्तम्यन्तं पदम्। पूर्वसूत्रेभ्यः ‘स्थानिवदादेश:’ ‘अचः’
चानुवर्तते। अतः सूत्रार्थो भवति "द्विर्वचनेनिमित्तेऽचि
अजादेशः स्थानिवद् भवति द्विर्वचन एव कर्तव्ये"९४। रूपातिदेशश्चायं
नियतकालः। अत: द्विर्वचने कृते पुनरादेशरूपमेवावतिष्ठते। अस्य सूत्रस्य प्रयोजनं काशिकायामुल्लिख्यते-
"आल्लोपोपधालोपणिलोपयणयवायावादेशाः प्रयोजनम्"।९५
९०. पाणिनीयाष्टाध्यायी(६.४.९८)
९१. पाणिनीयाष्टाध्यायी(८.४.५५)
९२. पाणिनीयाष्टाध्यायी(८.३.६०) ९३. पाणिनीयाष्टाध्यायी(१.१.५९)
९४. वैयाकरणसिद्धान्तकौमुदी(पृष्ठसंख्या-७७) ९५. काशिका(द्विर्वचनेऽचि-१.१.५९
अस्य व्याख्याने)
९६. पाणिनीयाष्टाध्यायी(६.४.६४) ९७.
पाणिनीयाष्टाध्यायी(६.१.१)
२.
उपधालोपः- ‘जघ्नतुः’ ‘जघ्नुः’
- "गमहनजनखनघसाम्०"९८
इति सूत्रेण उपधालोपे कृते अचोऽभावाद् द्विर्वचनं न स्यात्। स्थानिवत्वं कृते सति भवत्येव।
३. णिलोपः- ‘आटिटत्’ इत्यत्र अटतेर्णिचि लुङि णिलोपे कृते तस्य स्थानिवत्वात्
“अजादेर्द्वितीयस्य”९९ इति
‘टि’ शब्दस्य द्वित्वं भवति।
४. यण्- ‘चक्रतुः’ ‘चक्रुः’ इत्यत्र ‘कृ’ धातोरतुसि
उसि च यणादेशे कृते अचोऽभावाद् द्विर्वचनं न स्याद्, स्थानिवत्त्वाद्भवति।
५. अयवायावादेशा:- ‘निनय’ ‘निनाय’; ‘लुलव’ ‘लुलाव’-
‘णीञ् प्रापणे’१०० तथा च ‘लूञ् छेदने’१०१ इति धातोः लिट्लकारोत्तमपुरुषैकवचने
णलि गुणे कृते वृद्धौ च अय्, अव्, आय्, आव् आदेशाः भवन्ति। एतेषां स्थानिवत्त्वाद्
द्विर्वचनं भवति।
त्वच्। अतः स्थानिवद्भावः
न भवति।
द्वितीयं मतं प्रस्तूयते-
“द्विर्वचनेऽचि” इति सूत्रे भगवता पतञ्जलिना स्थानिवद्भावः स्वीकृतः,
आदेशस्य निषेधो न स्वीकृतः, परन्तु सिद्धान्तकौमुदीकारेण भट्टोजिदीक्षितेन "न
पदान्त" इति सूत्रेण न इत्यस्या- नुवत्तनं कृत्वा प्रकृतसूत्रे निषेधः मत:। तेन
“स्थानिवदादेशो०” इति सूत्रेण ‘आदेश’ इत्यस्य,
“अचः परस्मिन्नि”ति सूत्रेण ‘अच’ इत्यस्य तथा च "न पदान्त" इति सूत्रेण ‘न’ इत्यस्यानुवत्तनं कृत्वा अस्य सूत्रस्य
एवमर्थः कृतः-
द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद् द्वित्वे कर्त्तव्ये।१०५
उदा.- ‘चक्रतु:’ इत्यत्र
‘कृ’धातोरतुसि यणादेशे प्राप्ते द्वित्वकर्त्तव्यतायां “द्विर्वचनेऽचि” इति सूत्रेण यणादेशः निषिध्यते। द्वित्वकर्त्तव्यानन्तरं तु भवत्येव।
१०५. वैयाकरणसिद्धान्तकौमुदी(तिङन्तप्रकरणम्, द्विर्वचनेऽचि(२२४३)-
अस्य व्याख्याने) १०६. “यद्यपीह
वृत्त्यादौ अजादेशः स्थानिवत् स्यादिति रूपातिदेशपक्ष: स्वीकृतः, फलं चोभयत्र तुल्यम्,
तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः। किं चाऽऽदेशमङ्गीकृत्य पुनः
स्थानिरूपाऽऽश्रय- णाऽपेक्षया निषेधपरतया व्याख्यानमेव लघु। "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इति न्यायात्
"न पदान्त" इति निषेधाऽनन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानपक्ष:।”
(वैयाकरणसिद्धान्तकौमुदी- तिङन्तप्रकरणम्, द्विर्वचनेऽचि(२२४३)-
अस्य व्याख्याने { तत्त्वबोधिनी टीका})
उपसंहारः-
अस्य प्रदत्तकार्यस्य सारांशरुपेण वक्तुं
शक्यते यत् महर्षिपाणिनिना स्व-अष्टाध्यायीनामके ग्रन्थे षड्-विधानि सूत्राणि प्रोक्तानि,
तेष्वतिदेशसूत्रेण तुल्यतया कार्यं विधीयतेऽथवा कस्यचिद् धर्मस्य कस्मिंश्चिदन्यस्मिन्
धर्मणि आरोप: क्रियते। वैयाकरणैरतिदेशसूत्राणि सप्तविधानि मतानि। तेषु कार्यातिदेशात्मकानि
त्रीणि सूत्राणि सन्ति- १. “स्थानिवदादेशोऽनल्विधौ”।
२. अचः परस्मिन् पूर्वविधौ”। ३. “नपदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु”। तथा “द्विर्वचनेऽचि” इति सूत्रेण रूपातिदेशः क्रियते।
लोके तावद्- “गुरोः स्थाने शिष्यो याज्यकुलानि गत्वाऽग्रासनादीनि लभते” इति लोकन्यायेन
सिद्धे पुनः "स्थानिवदादेशोऽनल्विधौ"
इत्यस्य कार्यातिदेशात्मकस्य सूत्रस्य का आवश्यकता? "स्वं रूपं शब्दस्याशब्दसञ्ज्ञा"
इति पाणिनिवचनात् स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थं "स्थानिवदादेश०" इति सूत्रस्यावश्यकता
वर्तते।
सन्दर्भग्रन्थसूची
क्र. ग्रन्थस्य नाम लेखक: प्रकाशक: प्रकाशनवर्षम्
१. अष्टाध्यायीसूत्रपाठ: सम्पादक:- श्री पं. रामलाल कपूर ट्रस्ट, रेवली २००६ई. (पाणिनिमुनिविरचिता) ब्रह्मदत्त जिज्ञासु (सोनीपत-हरयाणा)
२. वैयाकरणसिद्धान्तकौमुदी भट्टोजीदीक्षितविरचिता चौखम्बा सुरभारती प्रकाशन, २००८ई. बालमनोरमा(संस्कृतव्याख्या) व्याख्याकार:- डा. गोपाल- वाराणसी(उ.प्र.) दीपिका(हिन्दीव्याख्या) दत्तपाण्डेय:
३. (भगवत्पादपतञ्जलिप्रणीत:) टीकाकार
और सम्पादक:- चौखम्भा विद्याभवन,
वाराणसी(उ.प्र.)
महाभाष्यम् (ज्योत्स्ना टीका) डॉ.
हरिनारायण तिवारी
४.
वाक्यपदीयम्(प्रतिभा टीका) टीकाकारः-
आचार्य पं सत्यनारायण चौखम्भा कृष्णदास
अकादमी,
(ब्रह्मकाण्ड) खड्डूडी वाराणसी(उ.प्र.)
५. धातुपाठ: (पाणिनिमुनिविरचिता) पं. रामलाल कपूर ट्रस्ट, रेवली सोनीपत-हरयाणा)
२०१०ई.
६. काशिका सम्पादक:- विजयपालो विद्यावारिधि: पं. रामलाल कपूर ट्रस्ट १९९७ई.
(श्रीवामनजयादित्यविरचिता) (रेवली सोनीपत-हरयाणा)
७. काशिकावृत्तिः व्याख्याकारः- पं. ईश्वरचन्द्रः चौखम्भा संस्कृत प्रतिष्ठान, दिल्ली २०१०ई.
८. पाणिनीयशिक्षा व्याख्याकार:- चौखम्बा सुरभारती प्रकाशन, २०००ई.
(पाणिनिमुनिविरचिता) डा. रमाशंकर
मिश्र: वाराणसी(उ.प्र.) 'अर्चना' व्याख्यासंवलिता
९. लघुशब्देन्दुशेखरः(पञ्चसन्ध्यन्तो
भागः) व्या.- वैकुण्ठनाथ शास्त्री चौखम्बा
सुरभारती प्रकाशन २००६ई.
महामहोपाध्यायनागेशभट्टप्रणीतः वाराणसी(उ.प्र
No comments:
Post a Comment