Thursday, 8 August 2013

v न्यायवैशेषिकसम्मतम् कर्मपदार्थनिरूपणम्
-भूपेन्द्र वालखडे
विशिष्टसंस्कृताध्ययनकेद्रम्
ज.ने.वि.,नई दिल्ली-६७

Ø भूमिका :-
        भारते प्रायः सर्वे धार्मिकसम्प्रदायाः मनुष्य-जीवनस्य चरमं लक्ष्यम् “मोक्षः” इति अवगच्छन्ति ।अतः सर्वैःविचारकैः स्व-सिध्दान्तान् एवं प्रस्तुतम् यत् ते मानवस्य मोक्षप्राप्तये साहायकानि भवेयुः ।स्वयं ‘दर्शनम्’ शब्दस्योत्पत्तिः एतत्तथ्यं प्रामाणयति –(दृश्यतेऽनेनेति दर्शनम्) अतः स्थुलाः अथ च सूक्ष्माः द्विविधाः अपि तत्वाः दर्शनस्य विषयाः सन्ति । एतं ‘सम्यक् दर्शनम्’ इत्युच्यते ।मनोः कथनमस्ति यत् ‘सम्यक् दर्शनसम्पन्नम्’ व्यक्तिं कर्मबन्धनं नैव भवति,दर्शनविहीनाःजनाः एव संसारे भ्रमन्ति ।[1]
स्थुलरूपेण ६ दर्शनाःआस्तिकाः सन्ति-“न्याय-वैशेषिक्,सांख्य-योगः,मीमांसा-वेदान्तः इति” त्रीणि च नास्तिकानि सन्ति-चार्वाक्,जैन अथ च बौध्दम् ।
           एतेषु प्रथमंयुग्मं न्याय-वैशैषिक् दर्शनस्यास्ति । यत् वेदेषु आस्थां स्थाप्यापि स्वतन्त्ररूपेण विकसितम् ।वस्तुतस्तु न्याय-वैशेषिक्-दार्शनिकाः वस्तुवादिनः सन्ति ।अन्यशब्देषु,बाह्य वस्तूनां वास्तविकताम् अवगमनार्थम् अस्माकमनुभव एव एकमात्रं प्रमाणमस्ति ।[2]
न्याय-वैशेषिक् इत्यस्यानुसारेण ज्ञाता,ज्ञेयम् एवं ज्ञानम् इत्येषां पृथक्-२ सत्ताऽवधारिता । सामान्यतया वैशेषिक् दर्शने सप्तपदार्थानां वर्णनमस्ति।
तद्यथा – द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः ।
किन्त्वत्र “कर्म” इति पदार्थस्यैव वर्णनं क्रियते ।तन्निम्नलिखितमस्ति
                 कर्मन्
कर्म इति पदस्य प्रयोगः विविधेषुशास्त्रेषु भिन्न-भिन्नेषुअर्थेषु कृतः वर्तते । यथा-१) व्याकरणशास्त्रे कारकार्थे प्रयोग: ।[3]
२)केचन वैयाकरणानामनुसारेण कारण-व्यापार-विषयः एव कर्म ।[4]
 ३)फलस्य इच्छां निधाय मनुष्यैःयानि धर्माधर्मात्मकानि कार्याणि क्रियन्ते ,तानि कर्मे’त्युच्यन्ते ।[5]
 ४)मीमांसकैर्नुसारेण नित्यकाम्यनैमित्तिकाः कर्मेति ।[6]
      किन्तु न्याय-वैशेषिकानां मतानुसारेण यत्नपूर्वकिक्रिया तु चेष्टाऽस्ति एवं च अयत्नपूर्वकिक्रिया-क्रियाऽस्ति ।वैशेषिक् दर्शनानुसारेण कर्म अथवा क्रिया द्रव्यस्य एका महत्वपूर्णा विशेषताऽस्ति ।एवं प्रकारेण
वस्तूषु द्रव्येषु वा परिवर्तनस्य अथवा गत्त्याः एतत्साक्षात्कारणमेव “कर्म” इत्युच्यते।
Ø कर्म-प्रक्रिया:-                      
          सिध्दान्तानुसारेण एतत् “कर्म”कश्चित्साक्षात् क्रिया नास्ति,अपितु त्रीणांप्रक्रियाणां समवेतं रूपमस्ति ।तद्यथा-
अ)क्रियातो विभागः  - प्रथमं तु कस्माच्चित् निश्चित्स्थानतः कस्यचित् वस्तुनः विभागः भवति
आ)पूर्वदेशसंयोगनाशः –तदनन्तरम् तद्वस्तुविशेषस्य तत्स्थानतःसंयोगनाशो भवति ।
इ)उत्तरदेशसंयोगोत्पत्तिः –तत्पश्चात् कस्मिंञ्चिदन्यस्मिन् स्थाने तद्वस्तुनः संयोगोत्पत्तिर्भवति ।
           एवम् प्रकारेण वैशेषिक् दर्शनानुसारेण कर्म केवलं पञ्चलक्षणावस्थायी भवति किन्तु तस्य वास्तविकिस्थितिः केवलं त्रीषु क्षणेषु एव भवति ।तद्यथा –
प्रथमं क्षणम् – क्रियायाः अथवा कर्मण उत्पत्तिः ।
द्वितीयंक्षणम् –विभागः ।
तॄतीयं क्षणम् – पूर्वदेशसंयोगनाशः ।
चतुर्थंक्षणम् – उत्तरदेशसंयोगोत्पत्तिः ।
पञ्चमंक्षणम्-उत्तरयोगेन कर्मणोनाशः ।
Ø “कर्म” इत्यस्य लक्षणम्
वैशेषिक् सूत्रकारेण महर्षिकणादेन स्वरचिते सूत्रेषु कर्मणो लक्षणम् एवं प्रकारेण कृतम् –“एकद्रव्य़मगुणंसंयोगविभागेष्वनपेक्षकारणमिति         कर्मलक्षणम्”[7]
एवं स्पष्टतः लक्षणेऽस्मिन् कर्मणः तिस्त्रः विशेषताः प्रकटिताः सन्ति-
१)एकद्रव्यत्वम्
२)निर्गुणत्वम्
३)संयोगविभागानपेक्षकारणत्वम् ।
उदयनाचार्येण कर्मणोलक्षणम् एवं प्रकारेण दत्तम् –
संयोगासमवेतसंयोगासमवायिसमवेतवत् कर्म”[8]
अन्नमभट्टेन तर्कसंग्रहे तु ‘चलनात्मकंकर्म’[9] इति उक्तम् ।किन्तु तर्कदीपिकायाम् तैः “संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । कर्मत्वजातिमद्वा ।”[10] शंकरमिश्रेण उपस्कार मध्ये
तथैव कणादरहस्येऽपि कर्मस्य अनेकानि लक्षणानि दत्तानि किन्तु तेषु सर्वेषु लक्षणेषु एतदैव विचारणीयं तथा च महत्वपूर्णमस्ति यत्
“नित्यावॄत्तिसत्तासाक्षाद्वयाप्यजातिमत्वम्” अर्थात् कर्मत्व जाति तत्पदार्थेषु भवति ये नित्याः न भवन्ति । एवं प्रकारेण ,कर्म’इत्यस्य उपर्युक्तानांलक्षणानां सूक्ष्मान्वीक्षणे सति केचन महत्वपूर्णाः तथ्याः प्राप्यन्ते ।तद्यथा –
क)कर्मत्व जातिना सह सम्बन्धम् ।
ख)एकस्मिन् समये एकस्मिन् द्रव्ये एव भवनम् ।
ग)अगुणत्वमथवा गुणराहित्यम् ।
घ)संयोगविभागवेगानांकारणत्वम् ।
        संयोगानां विभाग गुणानां कर्मपदार्थेषु कार्यं भवति[11]
(ङ)स्वोत्पन्नेन संयोगेन नष्टम् :-
        क्रियायाः चतुर्थक्षणे उत्तर संयोग एव क्रियां विनाशयति ।[12]
(च) असमवायि कारणत्वम् :-
शङ्करमिश्रेण असमवायिकारणमात्रवृत्तिम् अथ च सप्तासाक्षाद्व्ययाप्यजातिमेव कर्मत्वमुक्तम् ।
(छ) कर्मैत्यस्य आरम्भको न भवति :- यद्यपि एकं द्रव्यमपरं द्रव्यं एकः गुणः अपरं गुणमुत्पादयति किन्तु कर्म कर्मजन्यं न भवति ।[13]
(ज) द्रव्यस्यारम्भको न विद्यते कर्मपदार्थ द्रव्याणां कारणं न भवति[14]
(झ)क्षणिकत्वमनित्यत्वं वा – कर्मस्य वास्तविकिस्थितिः क्षणत्रयं वा चतुष्टयं तिष्ठति तदनुसारं कर्म द्रव्यस्य अनित्या विशेषता अस्ति।
(ञ) मूर्त्तद्रव्यत्वम् – कर्म केवलमल्पपरिणामीद्रव्येषु लभ्यते[15]


Ø कर्मणः सिद्धिः
कर्मणः सत्तायां प्रत्यक्षमेव प्रमाणम् इत्येवं वैशैषिक् दर्शनस्य सिध्दान्तः ।यतोहि ‘एष चलति’ इत्यादि प्रत्यक्षम् सर्वलौकिकपरीक्षकान् समानरूपेण भवति ।अतः तयाऽनुगतमत्या कर्मत्वजातिरपि सिध्दं भवति ।[16]
वैशेषिक् दर्शनस्यैष मान्यताऽस्ति यत् कर्म द्रव्य,गुणादिभ्यःपृथक् एको सत् पदार्थोऽस्ति तथा (प्रत्यक्षयोग्येषु द्रव्येषु) तस्य प्रत्यक्षानुभवोऽपि भवति अतस्तस्य सिध्दये अन्यस्य कस्यचिदपि प्रमाणस्य आवश्यकता एव नास्ति ।विषयेऽस्मिन् शंकरमिश्रस्य मतमस्ति यत् यदा कर्म स्पर्शयोग्येषु द्रव्येषु भवति तदा स्पार्शन् प्रत्यक्षमपि भवति ।[17]
Ø कर्मणो भेदाः :-
       वैशेषिक् दर्शनस्यानुसारम् कर्म सदैव दिग्विशेषेषु एव कार्यं करोति ।अतः दिगनुसारेण वैशेषिक् दर्शने पञ्चकर्माणि प्रोक्तानि ।
तद्यथा-१) उत्क्षेपणम् ।
२) अवक्षेपणम् ।
३) आकुञ्चनम् ।
४) प्रसारणम् ।
५) गमनम् ।[18]
क) उत्क्षेपणम् –                           
                        सूत्रकारकणादस्यानुसारेण उत्क्षेपणम् गुरूत्वम्,प्रयत्नः एवं च सयोगगुणानां कार्यमस्ति । एतल्ल्क्षणानुसारेण स्पष्टं भवति यत् एकमेव कर्म अनेकगुणानां कार्यमपि भवितुमर्हति ।शंकरमिश्रस्य विचारोऽस्ति यत् सूत्रेऽस्मिन् उत्क्षेपणम्,अपक्षेपणादिक्रियाणामपि उपलक्षणेन लाक्षणिकोऽस्ति।[19]
प्रशस्तपादस्योक्तिरस्ति यत् “तत्रोत्क्षेपणं शरीरावयवेषु तत्सम्बध्देषु च यदूर्ध्वभाग्भिः प्रदेशैः संयोगकारणमधोभाग्भिश्च प्रदेशैः विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसंयोगेभ्यस्तदुत्क्षेपणम् ।”
उदयनाचार्यस्यानुसारेण विभागं तथा च उर्ध्वदेशेन सह संयोगमुत्पादनकर्ता कर्म उत्क्षेपणम् अस्ति ।[20]
अन्नंभट्टानुसारेण उर्ध्वदेशेन सह संयोगहेतुरेव कर्म ।[21]
ख)अवक्षेपणम् –
                तद्विपरीतसंयोगविभागकारणं कर्मापक्षेपणम्।[22]
उदयनाचार्यस्यानुसारेण ऊर्ध्वदेशेन सह विभागः तथा अधोदेशेन सह संयोगोत्पादयिता कर्म एव अपक्षेपणम् ।[23]
अन्नमभट्टस्य शब्देषु “अधोदेशसंयोगहेतुरपक्षेपणम्”[24]

ग)आकुञ्चनम् –
                        प्रशस्तपादस्यानुसारम् “ऋजुनो द्रव्यस्याग्रावयवानां तद्देशैर्विभागः संयोगश्च मूलप्रदेशैयेन कर्मणावयवी कुटिलः संजायते तदाकुञ्चनम्”।[25]
उदयनाचार्यस्योक्तिरस्ति यत् “अग्रदेशविभागमूलसंयोगजनकं कर्माकुञ्चनम्” ।[26]
अन्नमभट्टेनोक्तम् यत् शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम् । किन्तु तेनैव स्व निर्मिता दीपिका टीकायामुक्तम् वक्रत्वसंपादककर्माकुञ्चनम् ।[27]
घ) प्रसारणम् –
                        प्रशस्तपादः कथयति यत् तद्विपर्ययेण संयोगविभागोत्पत्तौ येन कर्मणावयवी ॠजुः संपद्यते तत्प्रसारणम्।[28]
अन्नमभट्ट्स्य शब्देषु “विप्रकृष्टसंयोगहेतुःप्रसारणम्”।[29]तथा तर्कदीपिकायाम् ॠजुतासंपादकं प्रसारणम् इति ।
ङ)गमनम् –
                प्रशस्तपादस्यानुसारेण “यदनियतदिक्प्रदेशसंयोगविभागकारणं तद् गमनम् इति ।”[30]
उदयनाचार्यस्य मतमस्ति –यत् कर्म विनाप्रयत्नैव उद्भवति तद्गमनम् इति ।[31]
अन्नमभट्टेन गमनस्य किमपि अन्यत् लक्षणं न दत्वा एतदेवोक्तम् यत् एतेभ्यःचतुर्विधेभ्यः कर्मेभ्यः भिन्नं अन्यानि सर्वविधानि कर्माणि गमनम् इत्युच्यते ।[32]
एवंप्रकारेण यासां क्रियाणां काऽपि दिशा निश्चिता न भवति यथा –
भ्रमणम्,स्यन्दनम्,रेचनम् आदीनामन्तर्भावः करणायैव गमनम् नामकं पञ्चमं कर्म अवधारितम् ।[33]
Ø गमनस्य भेदाः –
अ)संमूर्च्छनम् –
        प्रशस्तपादस्योक्तिरस्ति यत् द्वाभ्यां विपरीतदिग्भ्यां परस्परसंयोगः एव संमूर्च्छनम् ।
आ)कम्पनम् – एतां क्रियां एकाघण्टानादेन अवगन्तुं शक्यते ।
इ)भ्रमणम् –
        भ्रमणकर्तुः द्रव्यस्य प्रत्येकक्षणे एकस्मिन् समये एकस्मिन् निश्चिद्दिक्षु भ्रमणं करोति यथा-कुलालस्य चक्रम् ।
द्रव-द्रव्यानाम् क्रियाः –
                वैशेषिक् ग्रन्थानाम् कर्म प्रकरणे द्रव-द्रव्यानाम् त्रीविधानाम् क्रियाणाम् वर्णनमस्ति –
अ)स्यन्दनम् – जलीयकणानां द्रव्यत्वेनजन्यक्रिया स्यन्दनमस्ति ।[34]
आ)आरोहणम् –अस्यांक्रियायां जलस्य द्रव-कणानि विरलितानि सन्ति तथा च एकसूक्ष्मावरोधस्य स्थितिषु वसन्ति येन तस्य ऊर्ध्वागमनं भवति ,यथा-सूर्य-मरिचिभिः जलस्य बाष्पीकरणम्।
इ)अभिसर्पणम् – वृक्षमूलेषुसिञ्चितजलस्योर्ध्वगमनम् ।[35]


Ø निष्कर्षः  -
                अतः एतद् वक्तुं शक्यते यत् वैशेषिक् दर्शनस्यानुसारेण कर्म द्रव्य-गुणाभ्यां पृथक् पदार्थोऽस्ति तथा तस्यान्तर्गते भौतिकि-मानसिकिसर्वविधानां क्रियाणां समावेशोऽस्ति ।सारांशतः श्रीधराचार्यस्य शब्देषु-
हिताहितफ़लोपायप्राप्तित्यागनिबन्धनम् ।
कर्मेति परमं तत्त्वं यत्नतः क्रियतां हृदि ॥












Ø सन्दर्भ ग्रन्थ सूची
१)   न्याय दर्शनम्, गौतम, भाष्यकार स्वामी दर्शनानन्द, सार्वदेशिक आर्यप्रतिनिधि सभा,
                   नई दिल्ली-०२,द्वितीय संस्करण-२००३
२)   वैशेषिक दर्शनम्, कणाद, भाष्यकार स्वामी दर्शनानन्द, सार्वदेशिक आर्यप्रतिनिधि सभा,
                   नई दिल्ली-०२,द्वितीय संस्करण-२००३
३)   तर्कभाषा, केशवमिश्र, व्या.-गजानन शास्त्री मुसलगाँवकर, चौखम्बा सुरभारती प्रकाशन, वाराणसी, पुनर्मुद्रितसंस्करण-२००९
४)   तर्कसङ्ग्रह, अन्नम्भट्ट, व्या.-डा. दयानन्द भार्गव, मोतीलाल बनारसीदास प्रकाशन,
नई दिल्ली, ११ वाँ संस्करण।
५)   प्रशस्तपादभाष्यम्, प्रशस्तपाद, सं. नारायणमिश्र, काशी संस्कृतग्रन्थमाला,
वाराणसी, १२ वाँ संस्करण।
६)   कारिकावली, विश्वनाथपञ्चानन, व्या. श्री सूर्यनारायणशुक्ल, चौखम्बा संस्कॄत सीरीज, वाराणसी,सं.-२००८।
७)   किरणावली, उदयनाचार्य, सं. विन्ध्येश्वरीप्रसाद द्विवेदी, बनारस संस्कृत सीरीज, सं. २५, १९७३।
८)   न्यायकन्दली, श्रीधराचार्य, सं. दुर्गाधर झा, गंगानाथ झा ग्रन्थमाला, सं – १०, वाराणसी,
९)   न्यायसिद्धान्तमुक्तावली, विश्वनाथ, सं. हरिराम शुक्ल, काशी संस्कॄत सीरीज, ६, वाराणसी, १९७२।
१०)         सर्वदर्शन सङ्ग्रह, सम्पा. वासुदेवशास्त्री अभ्यंकर, पूना, द्वितीय संस्करण- १९५१।
-----------------------------------------------------------------------------------------------
सहायक-ग्रन्थः
वैशेषिकदर्शन में पदार्थ निरूपण, श्रीमती शशिप्रभा कुमार, दिल्ली विश्वविद्यालय, दिल्ली-१९९३।


[1] सम्यक् दर्शन सम्पन्नःकर्मभिर्न निबध्यते ।
दर्शनेन विहीनस्तु संसार प्रतिपाद्यते मनु.६.७४,पृ. ३१०
[2] संविदेव भगवती वस्तूपगमे नः शरणम् ।-न्या.वा.ता.टी. पृ.३११(न्या.सू.२.१.३६)
[3] कर्त्तुरीप्सिततमं कर्म –अष्टा.१,४,४९                 
[4] शशधरादयस्तु कारणव्यापारविषयः कर्मेत्याहुः ।न्या.को. पॄ.२०८
[5] स.द.सं.,पृ.३४५
[6] श्लो.वा. ,श्लो.-११०
[7] वै. सू.,१.१.१८
[8] लक्षणा.,पृ.२४
[9] त.सं.पृ.६०
[10] त.द
[11]  संयोग विभाग वेगानां कर्म समानं वै.सू. १.१.२०
[12] कार्य विरोधी कर्म ।वै.सू. १.१४
[13] द्रव्याणि द्रव्यान्तरमारभन्ते, गुगाश्चगुणान्तरं तथा कर्म साध्यं न विद्यते ।वै.सू. १.१.१०-११
[14] न द्रव्याणां कर्म तथा व्यतिरेकात् । वै.सू १.१.२१-२२
[15] मूर्त्तद्रव्यवृत्तित्वं अवच्छिन्नपरिमाणद्रव्यवृत्तित्वम् । न्या.क.पृ.६.९.८
[16] तत्र च प्रत्यक्षमेव प्रमाणम् ।चलतीति प्रत्यक्षस्यलौकिकसाधारणत्वादनयैवानुगतमत्या       कर्मत्वजातेरपि         सिध्देः। क.र.पॄ १५२
[17] संख्यापरिमाणानि पॄथकत्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणि ।वै.सू. ४.१.११
[18] उत्क्षेपणमवक्षेपणमाकुञ्चनप्रसारणंगमनमिति कर्माणि ।वै. सू.१.१.७
[19] गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् ।वै. सू. १.१.२९
[20] तत्राधोदेशविभागोर्ध्वदेशसंयोगजनकम् कर्मोत्क्षेपणम् ।लक्षणा.पॄ २४
[21] ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।त.सं.
[22] प्र.पा.भा.पृ २४४
[23] ऊर्ध्वभाग्भिर्विभागकारणमधोभागभिश्च संयोगकारणमिति ।व्योम. पृ ६५४
[24] त.सं. पृ.६०
[25] प्र.पा.भा. पृ२४४
[26] लक्षणा.पृ२४
[27] त,सं +त.दी. पृ ६०
[28] प्र भा. पृ २४४
[29] त.सं.पृ ६०
[30] प्र पा. भा. पृ २४४
[31] अप्रयत्नजं कर्म गमनम् ।लक्षणा पृ २४-२५
[32] अन्यत्सर्वं गमनम् –त,सं. पृ ६०
[33] उत्क्षेपणादिशब्दैरनवरुध्दानाम् भ्रमणपतनस्यन्दनादीनामवरोधार्थं गमनग्रहणंकृतम् । प्र पा. भा. पृ ४२
[34] द्रवत्वात् स्यन्दनम् ।वै, सू.५.२.४
[35] न्या.मं. भाग २ पॄ ५१ 

No comments:

Post a Comment