वेदेषु सामाजिकसमन्वय:
Walkhade Bhupendra
Arun
M.Phil.,
Research Scholar
Special
Centre For Sanskrit Studies
Jawaharlal
Nehru University
New Delhi
-67
Email –
raasjnu@gmail.com
प्रायशो भारतीयानामादयो धर्मग्रन्था
वेदाः सन्ति,
तेषु सर्वत्र
सामाजिकव्यस्थायाः समन्वयो
दृश्यते। कुत्रपि
वेदेषु जातेश्चर्चा
न प्राप्यते
,यतोह्यधुनातन एषा
महती समस्या
जातिविषयिणी प्रवहन्ती
लक्ष्यते, तेन
समाजे सर्वत्र
जनै: पारस्स्परिकविद्वेषकारणात् सामाजिकसमरसताया ह्रासो सन्दृश्यते। अतो
हेतो एतादृश्या
विमानसताया उच्छेद:
कथं स्यात्
अद्यतनीनसमाजे व्याप्तस्यानुचितप्रचारस्योच्छेदार्थम्, अस्य वेदमूलकत्वं प्रदर्श्य
शिक्षितवर्गीयानां समक्षमुपस्थापयिष्यते -
अस्य पत्रस्य क्षेत्रमिदमेव
यत् समाजेऽव्यवस्थानां यद्दर्शन तासां सर्वाषां
वेदमूलकत्वं नास्ति,
येन विभिन्नवर्गीयाणां जनानां वेदेषु श्रद्धा
स्यात् तथा
च तेऽपि सर्वे वेदानधीत्य
सामाजिकी या
एकता , तादृश्यैकताया: संरक्षणाय ज्ञानपूर्वकं प्रयतेरन- इति धिया ऋग्वेदेऽन्येषु च वेदेषु सामाजिकसमन्वयभावना कथमासीदिति प्रदर्श्यते- इदानीमपि यदि तज्ज्ञानस्य
प्रासङ्ग्यं स्यात्
तर्हि सामाजिकबिभेदस्यापकरणमवश्यमेव स्यात्
यतोह्यद्यत्वे लोकतन्त्रप्रणाली प्रदूषितावलोक्यते,
यतोहि समाजिकप्रतिनिधिभिः समाजे विभेदविषं प्रचार्यते।
किन्तु
तैर्यथाविध: प्रचार:
समाजे क्रियते, वेदाननधीत्यैव तन्नारकीयम्,एतस्मात्
समाजस्य रक्षणाय
सामाजिक्यैकताऽपेक्ष्यते। सा च
वेदेषु दरीदृश्यते।
अतो वेदात्मकतत्वज्ञानेन पारस्परिकजातिविषयकविद्वेषस्य क्षिप्रमेव समन्वय: स्यात्।
इति धिया
प्रवर्तमानोऽहं पत्रमिदं
लिलिखिषामि।
वर्णव्यवस्था -
यदि विचार्येत् सामाजिकव्यस्थाया असन्तुलने बीजं किं
तर्हि मन्मते
तु पुरुषसूक्तमेव , यतोहि व्याख्याकर्तृभिर्बहुप्रकारकैर्विद्वद्भिरेतादृग्विश्विश्वोत्पत्तिव्यवस्थापकस्य सूक्तस्यानुपयुक्तं व्याख्यानं
कृतम्। येन
सामाजिकी समरसतायाः
ऐक्यस्य च
नाशो वभूव।
स च मन्त्रो वर्णव्यस्थाप्रतिष्ठापक:-
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्य:
कृत:।
ऊरू तदस्य
यद्वैश्य: पद्भ्यां
गुं शूद्रोऽजायत्॥
अर्थात् ब्रह्मणो मुखात्
ब्राह्मणोत्पत्तिस्तेन ब्राह्मणानां श्रेष्ठत्वम्,अस्तीति प्रतिपाद्यते,तस्माद्ब्राह्मणानां श्रेयस्त्वं निगद्यते ।
बाहुभ्यां क्षत्रिया:
सूता: तस्मात्
कारणात् क्षत्रियाणामन्येषामपेक्षया श्रेष्ठत्वम्’। एतस्मात्कारणात् द्वयोर्वर्णयोश्श्रेष्ठत्वं प्रतिपाद्यते, इत्याकारिका धीर्जनानां हृदि
मिथ्यात्वं प्रतिपादयति-
धारणैतादृशी मनसो निष्कास्या
भवित्री। अग्रे
कथ्यते –ऊरूभ्यां
वैश्योत्पत्तिर्जाता, एतस्मात्कारणादेव वरीयताक्रमे
वैश्यानां तृतीयं
स्थानं विद्यते
पद्भ्यां शूद्रोत्पत्तिर्दृश्यतेऽथर्ववेदे कथ्यते-
श्रमेण तपसा सृष्टा
ब्रह्मणा वित्ता
ऋते श्रिताः।
सत्येनावृता श्रिया प्रवृता
यशसा प्रवृता
।।
श्रद्धया पर्यूढा दीक्षया
गुप्ते यज्ञे
प्रतिष्ठिता।
यजुर्वेदेऽपि निगदितम्-
रुचं नो धेहि
ब्रह्मणेषु रुचं
राजसु नस्कृधि।
रुचं विश्येषु
शूद्रेषु, मथि
धेहि रुचा
रुचम्।।
अन्यात्रापि- प्रियं
मा कृणु
देवेषु प्रियं
राजसु मा
कृणु।
प्रियं सर्वस्य
पश्यत उत
शूद्र उतार्ये॥
वस्तुत:
वेदेषु एतादृशेषु
मन्त्रेषु
सर्वत्र वर्णव्यस्था
परिलक्ष्यते, तस्मात्
पुरातने या
वर्णव्यस्था आसीत्,
सा तु
कर्मणा दृश्यते
न तु जन्मना, यथोक्तं
गीतायाम्-
चातुर्वर्ण्यं मया
सृष्टं गुणकर्मविभागश:।
तस्य कर्तारमपि
मां विद्ध्यकर्तारमव्ययम्॥
अर्थात् न जन्मना वर्णव्यस्था अपितु
कर्मणा एव
अस्य श्लोकस्य
व्याख्यानं भगवत्पादाचार्येणादिशङ्कराचार्येण क्रियते-चातुर्वण्यं चत्वार
एव वर्णाः
चातुर्वर्ण्यम्, मया ईश्वरेण सृष्टम्,
उत्पादितम्, “ब्राह्मणोऽस्य मुखमासीद्……”इत्यादि
श्रुते:।
गुणकर्मविभागशः गुणविभागशः
कर्मविभागशः गुणाश्च
सत्वरजतमांसि।
तत्र सात्विकस्य
सत्वरजप्रधानस्य ब्राह्मणस्य
शमो दमस्तप
इत्यादीनि कर्माणि।
सत्वोपसर्जनरज:प्रधानस्य क्षत्रियस्य
शौर्यतेज:प्रभृतीनि
कर्माणि। तम
उपसर्जनरज:प्रधानस्य
वैश्यस्य कृष्यादीनि
कर्माणि। रज
उपसर्जनत्तम:प्रधानस्य
शूद्रस्य शुश्रूषा
एव कर्म।
इति गुण
कर्मविभागश: चातुर्वर्ण्यं
मया सृष्टमित्यर्थ: । तत् च
इदं चातुर्वर्ण्यं
न अन्येषु लोकेषु
अतो मानुषे
लोके इति विशेषणम्। एवं रीत्या शङ्कराचार्य
एतन्मन्त्रस्य व्याख्यानं
चकार।
अतो हेतो
गुणकर्माधारितैव वर्णव्यवस्था
न तु जन्मना ।मनुस्मृतावपि-
“जन्मना
जायते शूद्र:
कर्मणा द्विज
उच्यते……………….” अर्थात्
सर्वत्रापि कर्माधारिता
एव वर्णव्यस्था
दृश्यते न
तु जन्मना,
वेदेषु शास्त्रेषु
च, किन्तु
विद्वद्भि: कैश्चित्
आनुचित्यं व्याख्यानं
विधाय साम्प्रतं
तेषां
(मनुस्मृतिसदृशग्रन्थानां) अप्रासङ्गिकत्वं प्रदर्शयन्ति- किन्तु वैपरीत्यं तेषां
ग्रन्थानां तु
अप्रासङ्गिकत्वं न,
अपितु तच्चिन्तनधाराया अप्रासङ्गिकत्वं दरीदृश्यते। कुत्रचिदपि
न जात्याधारिता वर्णव्यस्था प्रत्युत
कर्माधारितैव दृश्यते
।
यतो हि तात्विकदृष्टावप्येकस्मादेव परब्रह्मणोऽस्मदीयानां समेषामुत्पत्तिरभूत् । अतस्मात्कारणादेव बृहच्छरीरिणैव
चातुर्वर्ण्योत्पत्ति:, तेन अस्मास्वेकत्वमेव । कथमिति चेत्?
तर्हि यथा
शरीरे दृश्यते
,रक्तं प्रवहति ,शिरिषि हस्तयोरुर्व्व्यो: पादयोश्च
सर्वस्मिन्नपि शरीरे
एकप्रकारकमेव रक्तं
प्रवहति न
तु भिन्नं-भिन्नं तस्मादपि
एकत्वम्।
लौकिकरीत्या यदि
ब्रह्मण्यपि विचार्येत् तदानीमपि तद्ब्रह्मणि यद्र्क्तं तद्र्क्तद्वारिकैव वर्णोत्पत्तिः।
तेनापि सर्ववर्णेष्वैकत्वम्, न त्वनेकत्वं विद्यते,य तोहि एकमेव द्रव्यं
वर्णव्यस्थोत्पादकम्। तस्माद् “उत्द्यते
यस्माज्जगदित्युपादानम्” इतिलक्षणेन द्रव्यात्मकत्वादपि वर्णव्यस्थाया एकत्वं समत्वञ्च
विभाव्यते। न
तु उच्चावचीयाभावना न च परस्परविभेदः। एतस्मान्निश्चीयते यद्वेदेषु
सर्वत्र या
वर्णव्यवस्था, सा
तु कर्मणैव
जायमाना आसीत्
न तु जन्मना, यतोहि
वेदेषु कुत्रचिदपि
न दृश्यते यज्जन्मना वर्णाव्यस्था आसीत्।
यै: ऋग्वेदस्य
सूक्तोदाहरणं दत्वा
प्रतिपाद्यते यत्
वर्णव्यस्थायां दृश्यतेऽश्पृश्यता तत्सर्वं कपोलकल्पना मात्रम्।
यथाऽयं मन्त्रः
प्रतिपादयति सुन्दरं
भाव:-
यथेमां वाचं
कल्यणीमावदानि जनेभ्य:।
ब्रह्मराजन्याभ्यां शूद्राय
च चार्याय च ॥
अतो निश्चीयते यद्वेदेषु
चतुर्वर्णेषु सामञ्जस्यमासीत् ,तत्रोच्चावचयो:
स्पृश्यास्पृश्ययो: सर्वदा आसीदभाव:। रोचकोऽयं प्रसङ्गो यत्-वेदेषु विप्रराज्यस्य समर्यराज्यस्य चोल्लेख:
प्राप्यते। एतद्राज्ययोर्विषये कथ्यते यदेतयो: प्रसृति:
समुद्रवदासीत्। अस्मिन् प्रसृते राज्ये
यज्ञेषु धार्मिकक्रियाकलापेषु
वलं दीयते
स्म। समर्यराज्यविषये कथ्यते
राज्यमिदं महदुत्कृष्टमासीत्। अस्मिन् धनधान्यस्य सैन्यशक्तेश्च
प्राबल्यमासीत्। किन्तु
काश्चन न्यूनता
आसन् तस्माद्धेतो: द्वेऽपि शासनपद्धती लोकप्रिये
न बभूवतुः। मनुः कथयति-
वर्णव्यवस्थाविषये यदि
कश्चन ब्राह्मणो
वेदाननधीत्यान्यत्र श्रमं
कुरुते तर्हि
स शूद्रतामधिगच्छति।–
योऽनधीत्य द्विजो वेदमन्यत्र
कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु
गच्छति सान्वय:॥
यदि मनोरियमुक्तिर्विचार्येत् – तदानीं तु
सर्व एव
अद्यतनीना ब्रह्मणा:
शूद्रा एव
,यतोहि ब्रह्माणाद्युच्चवर्गीयै: सर्वैरन्यत्र
वेदव्यतिरिक्तक्षेत्रे एव श्रमो विधीयते,
अत एव
स्पष्टत्वेन मनुना
कर्मद्वारिका एव
वर्णव्यवस्था इति
प्रतिपादितम् ,तेन कर्मणा
एव जातिव्यवस्था
अद्यत्वेऽप्यादर्या।
आश्रमव्यवस्था-
आश्रमव्यवस्थयापि ज्ञायते यत्
संसद्येकत्वमासीत्, यतोहि चतुर्विधत्वमेवाश्रमाणाम्। एतस्मादपि
प्रतीयते यत्सर्ववर्णीया जना:
सर्वेषु आश्रमेषु
जग्मुर्न केवलं
ब्राह्मणा एव
सर्वाश्रमान् बुभुजु:। नास्त्यत्र सन्देहो यतोहि
प्रार्त्यक्षमद्यत्वेऽपि क्रियते।–
ऋग्वेदे आश्रमव्यस्थाविषये निगद्यते-
ब्रह्मचारी चरति
वेविषद्विष: स
देवानां भवत्येकमङ्गम्।
तेन
जायामन्वविन्दद् वृहस्पति:
सोमेन नीतां
जुह्वं न
देवा:॥
ऋग्वेदे ३.५५.१६ तथा
५.७.९अत्रापि ब्रह्मचर्यं
विधाय विवाहयोग्यानां युवतीनां वर्णनं वर्तते।
अथर्ववेदे तु
ब्रह्मचर्यब्रह्मचार्यो महिमवर्णनं विस्तरेण क्रियते। यथा-
आचार्यो ब्रह्मचारी
ब्रह्मचारी प्रजापति:।
प्रजापतिर्विराजतिविरादिन्द्रोऽभवद्रशी॥
ब्रह्मचर्येण तपसा
राजाराष्ट्रं विरक्षति।
आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते॥
ब्रह्मचर्येण कन्या३
युवानं विन्दते
पतिम्।
अनड्वान् ब्रह्मचर्येणाश्वो घासं
जिगीर्षति॥
ब्रह्मचर्येण तपसा देवा
मृत्युमुपाघ्नत ।
इन्द्रो ह ब्रह्मचर्येण देवेभ्य: स्व१राभरत्॥
इत्थं सर्वत्र
वेदेषु आश्रामाणि
पुरस्कृत्यापि सामाजिकव्यवस्थाया एकत्वं प्रतिपेदे।
ऐक्यविषये शुक्लयजुर्वेदे चर्च्यते-
यस्तु सर्वाणि
भूतान्यात्मन्येवानुपश्यति।
सर्वभूतेषु चात्मानं ततो
न विजुगुप्सते।।
यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानत:।
तत्र को
मोह: को
शोक: एकत्वमनुपश्यत:॥
इत्येवम्प्रकारेण सर्वत्रर्षिभिर्ददृशे, येनसमाजे परस्परं
वैमनस्यं नासीत्,
यतोहि सर्वभूतेष्वेक
एव प्रत्यङ्ङात्मा अस्ति।तच्चातुर्वर्ण्येषु व्याप्तं
दृश्यते, अनेन
सामाजिक्यैकता वरीवर्धते।
गीतायामपि-
विद्याविनयसम्पन्ने ब्राह्मणे
गवि हस्तिनि
।
शुनि चैव
श्वपाके चपण्डिता:
समदर्शिन:।।
गीतोक्तवचनेनापि ज्ञायते यत्
निषद्याया एकत्वं
प्रतिपाद्यते, यतोहि
पण्डिता ये
भवन्ति ते
समदर्शिन:, तैस्समाजे
कुक्कुरेषु ,श्वपाकेषु(चाण्डालेषु),पण्डितेषु
, करिषु, एक
एव प्रत्यङ्ङात्मा दृश्यते। तत्र पण्डितत्वं
नाम-“सदसद्विवेकिनी
बुद्धिरिति पण्डा”
पण्डा सञ्जाता
अस्येति पण्डित:”
पण् धातो: “ञ्मन्ताड्ड:”
इति सूत्रेण
डप्रत्ययेविहिते स्त्रीत्वे
च टापि पण्डा इति।
तत: “तदस्य
सञ्जातं तारकादिभ्य
इतच्” इति
लक्षणेन इतचि
सति स्वादिकार्ये
पण्डित इति
भवति। एतस्मादपि
व्युत्पत्तिलभ्यार्थात् सिध्यति यत्
पण्डितो नाम
ब्राह्मणो नापितु
विद्वान् , स
च कश्चनापि वर्णीयो भवितुमर्हति।
एतेनापि जन्मना
पण्डितत्वं न
सिध्यत्यपितु कर्मणा
एव। अतस्माद्धेतो
ज्ञानानुकूलात्मवान्पुरुषस्यैव पण्डितत्वमिति सिद्ध्यतीति
लक्षणम्पण्डितस्य, न
तु ब्राह्मणवंशोत्पन्नस्यपण्डितत्वमत: समाजस्यैकताया
अक्षुण्णत्वमनेन प्रतीयते।
राष्ट्रीयता-
ऋग्वैदिककाले देशभक्तिभावनाया: विकास
आसीत्। ऋग्वेदे
५.६६.६ मन्त्रे राज्यमहिम्नोपदेशो लक्ष्यते।
“व्यचिष्टे वहुपथ्ये स्वराज्ये”अनेकोपायै राज्यं
रक्ष्यमस्माभिः।
इहैवेधि माप
च्योष्ठा: पर्वत
इवाविचाचलि:,
इन्द्र एवेह
ध्रुवं तिष्ठेह
राष्ट्रमु धारय।
अर्थाद्राजा पर्वतमिव स्थिरीभूय
राष्ट्रं धारयेदिति
कामना क्रियते
तेन सामाजिक्यैकता
भवति यदि
राज्ये सामाजिकं
विघटनं स्यात्तदा
राजा कथं
शत्रुभिर्राष्ट्रं रक्ष्येत्,
अतोऽपि ज्ञायते
यत् समाजे
सर्वदैकता एवासीत्।
ऋग्वेदे स्पष्टत्वेन
लिख्यते यदेकस्मिन्नेव
गृहे सर्वविधा:
पुरुषा निवेषु:।-
कारुरहं तातो
भिषगुपलप्रक्षिणी नना।
नानाधियो वसूयवोऽनुगा इव
तस्थिमेन्द्रायेन्दो परिस्त्रव
॥
ऋग्वेदस्य दशममण्ड्ले प्राप्यते
मन्त्रोऽयम्। ऋषि:
कथयति – अहं
छन्दसां गायकोऽस्मि,मत्पिता वैद्य:,माता पिषनहारिणी,
एवं प्रकारेणास्माभिर्विविधप्रकारका व्यवसाया
अर्जनाय क्रियन्ते।
एवं प्रकारेण
क्वचिदपि न
प्रप्यते जात्याधारिवणव्यवस्था। ऋग्वेदाग्निसूक्तेऽपि विचार्यते-
उप त्वाग्ने दिवे
दिवे दोषावस्तर्धिया वयम्। नमो भरन्त
एमसि।
अर्थात् वयमनुष्ठातार: प्रतिदिनमनुष्ठन्त: उत्तमबुद्धिद्वारा त्वत्सामीप्यं प्रप्नुम:,एतेन
प्रतीयते यत्
अनुष्ठानं तु
स्व-स्वकार्येषु
व्यापृता सन्
सामीप्यं तव
प्राप्य पापकर्मसु
न रता:
स्याम, येन
प्रतीयते यत्
कर्माणि तु
चातुर्वर्णीयैरपि क्रियन्ते,
तस्मात् सर्वत्र
ऋग्वेदे सामाजिक्यैकताया दिग्दर्शनं भवति। एवमेव
बहुषु मन्त्रेषु
सामाजिकता अश्नुते।
विष्णुसूक्तेऽपि दृश्यते
सामाजिक्यैकता-
इदं विष्णुर्विचक्रमे त्रेधा
निदधे पदम्।
समूढमस्य पांसुरेव॥
यद्यत्र साक्षादभिधेयोऽप्यर्थ: स्वीक्रियते, तदानीमपि समाजे समेषामपि
वर्णानां सर्वविधैकत्वं
प्रतिपाद्यते नो
चेद्विष्णु: कथं
त्रैलोक्येषु द्युपृथ्व्यन्तरिक्षेषु स्वकीयौ
पादौ स्थापयेत्,केवलञ्च उच्चजातिमानिष्वेव स्थापयेत,
किन्तु मैवं
दृश्यते, अतोऽपि
प्रतीयते यत्
समाजे सर्वदैक्यमेवासीत्। इतोपि अक्षसूक्तेऽपि प्रतिपाद्यते यदाक्षिकैरपि सामाजिक्यैकताया: प्रचार:
क्रियते,
“अक्षैर्दीव्यति” ।
तत्र कश्चन
वर्णीयोऽपि स्यादाक्षिकस्तत्रातिस्नेहेन क्रीडेयं
प्रचलन्ती दृश्यते,
न तत्र कोऽपि अश्पृश्यताया: सामाजिकविभेदस्य वा प्रश्न।
एतस्मात्कारणात् अक्षक्रीडयापि दृश्यते समाजे ऐक्यम्।
यथा ऋषिरुपदिशति- अक्षैर्मा दीव्यः कृशमिति
कृषस्व वित्तेरमस्व
बहुमन्यमान:।
तत्र गाव:
कितव तत्र
जायाः
तन्मे विचष्टे
सवितायमर्य:॥
मित्रं कृणुध्वं खलु
मृलता नो
घोरेण चरताभि:
धृष्णु।
नि वो नु
मन्युर्विशतामरातिरन्यो बभूणां प्रसृतौ
न्वस्तु॥
एतादृशी शिक्षा
ऋषिभि: सर्ववर्णीयेभ्यो ददे। सञ्ज्ञानसूक्ते तु
ऐक्यभावना दृश्यतेऽस्य
मन्त्राः बहुधा
प्रसिद्धा:- सङ्गच्छध्वं
संवदध्वं सं
वो मनांसि
जानताम्।
देवाभागं यथा
पूर्वे सञ्जनाना
उपासते।
अत्रापि सामाजिक्यैकता
परिव्याप्ता दृश्यते।
समानो
मन्त्र: समिति:
समानी समानं
मन: सहचित्तमेषाम्।
समानं
मन्त्रमभिमन्त्रये वःसमानेन
वो हविषा
जोहोमि।।
सामनी वः
आकूति:
समाना हृदयानि
व ।
समानमस्तु वो
मनो यथा
व: सुसहासति॥
सूक्तेऽस्मिन् राष्ट्रैक्यस्य जनैक्यस्य च भावनायाः सञ्चारो दृश्यते।
येनास्माकं समाजे
सर्वदा सौमनस्यमासीत्।कठोपनिषद्यपि प्रतिपाद्यते-
अग्निर्यथैको भुवनं
सम्प्रविष्टो रूपं
रूपं प्रतिरूपो
बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं-रूपं प्रतिरूपो
बभूव।
अत्रापि समत्वस्यैव निदर्शना
भवति। मनु:
कथयति- यदि
ब्राह्मणेषु तादृशा
गुणा न
स्युर्यथाऽपेक्ष्यन्ते तदानीन्तने तु
ब्राह्मणो शूद्रत्वमधिगच्छति। शूद्रश्च ब्रह्मणोचितगुणेषु सत्सु
ब्राह्मण्यमेतीति प्रतिपादयति-
शूद्रो
ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्।
क्षत्रियाज्जातमेवं तु विद्यावैश्यात्तथैव च॥
तस्मादुक्तमनुवचनैस्तु एवमेव प्रतिभाति
यत् ब्राह्मणोचिता
गुणाः –अध्ययनमध्यापनं यजनं याजनं दानं
प्रतिग्रहश्चेति। यदि
केषुचिदपि विद्येरन
तदा तद्ब्रह्मणत्वमिति मनुप्रतिपादनम्। एवमेव यदि
क्षत्रियवैश्यशूद्रोक्तगुणा अपि यस्मिन्
स्युस्तस्य गुणानुरूपिवर्णः। सर्वविधिविचरानन्तरं निष्कर्षत्वेनोच्यते यत्
कर्माधारितैव वर्णव्यवस्था
नतु क्वचिदपि
जात्याधारिता वणव्यवस्था
दृष्टिपथमायाति,वस्तुतस्तु
समाजे तु
दरीदृश्यते जात्याधारिवर्णव्यवस्था तादृशस्य
विनाशायास्माभि: सर्वदा
प्रयासो विधास्यते।
अयं निज:
परो वेति
गणना लघु
चेतसाम्।
उदारचरितानां तु वसुधैव
कुटुम्बकम्।।
तथा च
“यत्र विश्वं
भवत्येकनीडम्” इत्यादिभुक्तिभि: सर्वत्र प्रतिपादितं वर्तते।
उपसंहार:-
प्रस्तुते पत्रेऽस्मिन् राष्ट्रीयैक्यं तथा च सामाजिकसमन्वयो वेदानाधृत्य कथं
स्यादित्युपस्थापितमस्माभिस्तथा च विविधवेदेषु वर्णव्यवस्थाया आश्रमव्यस्थायास्तथा च गीतोक्तापि वर्णव्यस्था
प्रतिपादिता वर्तते।
संस्कृतिरस्माकमियं यत्
विश्वस्यैकताया: कल्याणस्य
च सर्वदा कीर्तनं क्रियते-
सर्वे भवन्तु
सुखिनः सर्वे
सन्तु निरामया:
।
सर्वे भद्राणि
पश्यन्तु मा
कश्चिद् दुःखभाग्भवेत्।।
“यत्र विश्वं
भवत्येकनीडम्” “वसुधैव
कुटुम्बकम्” यत्रैतादृशी भावना
परिदृश्यते। तत्र
कथं न
समाजे एक्यं
भविष्यतीति चिन्त्यम्,
एवं तु
तदैव सम्भाव्यते
यदा सर्वैरपि
जनैर्मनसा वाचा
कर्मणा
वेदानधीत्य व्यवहरिष्यते।
उक्तञ्च हरिणा-
मनस्येकं वचस्येकं कर्मण्येकं
महात्मनाम्।
मनस्यन्यत् वचस्यन्यत् कर्मन्यन्यत् दुरात्मनाम्॥
इतोपि - वेदेषु प्रतिपादिता सामाजिकी
भावनाया: सारांसः-
स्वस्त्यस्तु विश्वस्य खलः
प्रसीदतां
ध्यायन्तु भद्राणि शिवं
मिथो धिया
मनश्च भद्रं
भजतादधोक्षजे ,
आवेश्यतां नो
मतिरप्यहैतुकी ॥
सन्दर्भग्रन्थसूची-
१-वैदिकभगवद्दत: वैदिकवाङ्मयस्येतिहास:, सम्पादक:-सत्यश्रवा ,नवदेहली
प्रणवप्रकाशनम्,पञ्जाबीबाग१/२८
२-हरिदत्तकृष्णकुमारौ, ऋक्सूक्तसङ्ग्रह:, मेरठ साहित्य भण्डार, सुभाष बाजार २५००२
३-द्विवेदी, डॉ. कपिलदेव, वैदिकसाहित्येवं संस्कृति:,
वाराणसी, विश्वविद्यालयप्रकाशनम्, पञ्चमसंस्करणम्,२०१०
४-द्विवेदी,पारसनाथ:,वैदिकसाहित्यस्येतिहास:,वाराणसी,
चौखम्भा सुरभारती
प्रकाशनम्, २०११-२०१२,
५- मनु:,
मनुस्मृति:, सम्पादक:-शास्त्री, राजवीर:, देहली, आर्ष साहित्य प्रचार ट्रष्ट, ४५५, खारीवावली,