शब्दस्वरूपम्
2.1 शब्दलक्षणम्:-
वैशेषिकदर्शनाभिमतं शब्दस्वरूपं विमर्शयन् तत्र भवान् सूत्रकारो महर्षिकणादः- “श्रोत्रग्रहणो योऽर्थः स शब्दः”[1] इति सूत्रेण शब्दस्य लक्षणं प्रोवाच- श्रोत्रग्रहणं ग्रहकरणं यस्य स श्रोत्रग्रहणः अर्थः इति धर्मीत्यर्थः । शब्दवृत्तिधर्मेषु श्रोत्रग्राह्येषु शब्दत्व-तारत्व-मन्दत्वादिषु अतिव्याप्तिवारणाय अर्थ इति । शब्दत्वादयोऽपि श्रोत्रग्रहणाः किन्तु न ते अर्थाः, शब्दश्च
श्रोत्रग्राह्यत्वे सति समवायसम्बन्धेन जातिधर्मयुक्तः (धर्मी) विशिष्टः पदार्थः।
अतः शब्दत्व तारत्व मन्दत्वादयो न शब्दा इत्यर्थः । अत्र अर्थ इति पदनिर्देशेन वैयाकरणाभिमतस्य शब्दसमवेतस्य स्फोटनामापरशब्दस्य कल्पनमनावश्यकमित्यपि संसूच्यते ।[2]
2.1.1 स्फोटसिद्धान्तः-
वैयाकरणास्तावद् अर्थप्रत्यायनाय उच्चारितेभ्यो वर्णादिभ्योऽतिरिक्तस्य स्फोटनामशब्दस्य कल्पनं कुर्वन्ति ।[3] तेषामभिमतं यद्वर्णास्तु (ध्वनयस्तु) क्रमजन्मानः, पुनस्तैरेकस्याखण्डार्थस्य प्रतीतिः कथं सम्भाव्यते?-
“नादस्य क्रमजन्मत्वान्न पूर्वो न परश्च सः ।
एतस्मादेतादृशं किञ्चित्तत्त्वं स्वीकर्तव्यं यद् निरवयवं क्रमरहितं सद् अखण्डार्थप्रकाशकं स्यात् ।
तस्मिन् क्रमे वैयाकरणैः वर्ण-पद-वाक्याभिव्यक्तः अक्रमः[5] स्फोट[6] एवार्थप्रत्यायक इति निश्चीयते-
“द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः ।
“स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः, स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायकः” [8] । अत एकं पदं, एकं
वाक्यमिति एकत्वबुद्ध्यधिष्ठानत्वात् स्फोटोऽङ्गीकर्त्तव्यः, एकत्वप्रतीतिं विना बहुवर्णात्मके पदे बहुपदात्मके वा वाक्ये विशिष्टस्यार्थस्य प्रतीतिरसम्भवा, एतस्मात्तस्याः प्रतीतेः कारणस्य एकत्वस्य प्रयोजको स्फोटोऽभिमन्तव्य एव, अर्थस्य स्फुटीकरणादेव स्फोट इति नामधेयम्[9] ।
2.1.2 स्फोटसिद्धान्तस्य खण्डनम् (वैशेषिकमतम्) :-
सङ्केतविशिष्टो वर्णः पदमिति मन्वानैः संकेतबलादेव पदार्थप्रतीतिं स्वीकुर्वद्भिः वैशेषिकैस्तत्र स्फोटस्य खण्डनं क्रियते- एतन्न युक्तम्, बहुवर्णात्मके पदे वाक्ये वा कश्चित्स्फोटो नाम शब्दो नास्ति, अयं गौरित्यत्र गोपदस्य सास्नादिमत्यर्थे सङ्केतबलादेव तादृशोऽर्थस्य प्रतीतिर्भवति, न तु स्फोटात् । यतोहि वर्णातिरिक्तः पदात्मा वाक्यात्मा वा न प्रत्यक्षेणानुभूयते, तथा प्रतीतिर्भवेच्चेत्तर्हि स्फोटोऽङ्गीक्रियताम्, किन्तु न तथा प्रतीतिः, अतः स्फोटो नास्तीत्यवधार्यते । अर्थात् वर्णात्मकैरनेकैर्पदैर्यः संकेतितोऽर्थोऽभिव्यज्यते तमाधृत्यैव तत्रैकत्वव्यवहारो संजायते, एकत्वप्रतीत्यर्थं स्फोटस्यावश्यकता नास्ति । यदि च स्फोटेनैवार्थाभिव्यञ्जनं सम्भाव्येत, तर्हि अर्थसंकेतं विना पदैरेव स्वतः अर्थाभिव्यक्तिः सञ्जायेत । किन्तु असम्भवमिदं परिदुष्टकल्पनम्, इत्यतः अर्थावबोधस्य प्रयोजको पदसंकेत इति निश्चिते सति स्फोटस्याङ्गीकरणमनावश्यकमिति ध्वनयति सूत्रकारः-
“संकेतवद्वर्णत्वं पदत्वं तथा
च सङ्केतबलादेव पदार्थप्रतीतौ किं स्फोटेन। वर्णानाम्बहुनामप्येकार्थप्रतिपादकत्वमेकं
धर्ममभिप्रेत्य एकं पदमिति भाक्तो व्यवहारः एवं वाक्येऽपि । यदि वर्णातिरिक्तः पदात्मा
कश्चित् प्रत्यक्षतो गृह्येत स्वीक्रियेतापि स्फोटः सोऽयं स्फोटवादस्तुच्छत्वादुपेक्षितः सूत्रकृता”[10]।
2.1.3 शब्दगुणत्वे विप्रतिपत्तयः- कस्तर्हि शब्दः ?
भारतीयपरम्परायां शब्दार्थविमर्शस्य विभिन्नासु मौलिकसमस्यासु शब्दस्य तात्त्विकस्वरूपमभिलक्ष्यैका प्रमुखतमा समस्योपतिष्ठते- शब्दः किंरूपः? द्रव्यरूपः? गुणरूपः? कर्मरूपः? अन्यः वा कश्चन पदार्थरूपः? कस्तर्हि शब्दरूपः? आदिकालादारभ्य विषयेऽस्मिन् अनेकविधं चिन्तनं प्रवर्तते, स्वयं महर्षिकणादोऽपि विषयममुं सङ्केतयति- शब्दस्यासाधारणधर्मत्वस्य श्रोत्रग्राह्यत्वस्य[11] समानासमानजातीयेषु पदार्थेषु कुत्राप्यनुपलब्धत्वात् शब्दः किम् ? द्रव्यं गुणो कर्म वेति संशयमुपपद्यते[12]- यदि शब्दो द्रव्यम्, तर्हि समानजातीयेषु द्रव्येषु, असमानजातीयेषु च गुणकर्मसु कुत्रापि श्रोत्रग्राह्यत्वं नोपलभ्यते, न किमपि द्रव्यं श्रोत्रग्राह्यं नापि च गुणकर्मणि । यदि च शब्दो गुणः स्वीक्रियतां तदापि समानजातीयेषु गुणेषु असमानजातीयेषु वा द्रव्यकर्मष्वपि श्रोत्रग्राह्यत्वं नोपलभ्यते । तथा च शब्दस्य कर्मत्वमपि अभ्युपगम्यते चेत्तत्रापि समानजातीयेषु कर्मसु असमानजातीयेषु वा द्रव्यगुणेष्वपि श्रोत्रग्राह्यत्वस्यानुपलब्धत्वादियं शङ्का जायते[13]- कस्तर्हि शब्दः ? द्रव्यं गुणो कर्म वेति[14] ?
एतदभिलक्ष्य शब्दस्वरूपविमर्शे दार्शनिकेषु परस्परं मतभेदो दरीदृश्यते । यच्च रेखाचित्रमाध्यमेन अधोलिखितं प्रस्तूयते-
शब्दः
![]() |



1.साङ्ख्यदर्शनम् 1. बौद्धदर्शनम् 1.मीमांसादर्शनम्(भाट्टमतम्)
2.योगदर्शनम्
2.व्याकरणदर्शनम्
3.मीमांसादर्शनम् (प्रभाकरमतम्) 3.शैवदर्शनम्
4.वेदान्तदर्शनम्
5.न्यायदर्शनम्
6.वैशेषिकदर्शनम्
7.चार्वाकदर्शनम्
8.जैनदर्शनम्
[चित्रसङ्ख्या 2.1: शब्दस्य गुणत्वमुत द्रव्यत्वम्]
2.1.4 मीमांसकानां शब्दद्रव्यत्वसिद्धान्तः-
उपर्युक्तेष्वेतेषु दार्शनिकप्रस्थानेषु विशेषतः भाट्टमीमांसकाः विविधोपायैः शब्दस्य द्रव्यत्वं स्वीकुर्वन्ति-
“श्रोत्रमात्रेन्द्रियग्राह्यः शब्दः शब्दत्वजातिमान् ।
(क) शब्दस्य ग्रहणं (प्रत्यक्षं) स्वाश्रयिण आकाशात्पृथगेव भवति, यदा च गुणाः द्रव्याश्रिता एव गृह्यन्ते-
“वियद्गुणत्वं शब्दस्य केचिदू़चुर्मनीषिणः ।
प्रत्यक्षादिविरोधात् तद्भट्टपादैरुपेक्षितम् ।। तत्र गुणस्य सर्वस्य साश्रयतया प्रतीमानत्वादिह च निराश्रयतैव प्रतीतिदर्शनात् प्रत्यक्षविरोधः”[16] ।
(ख) शब्दो साक्षादिन्द्रियसंयोगेन प्रत्यक्षीक्रियते, यथा घटो द्रव्यम्- “शब्दो द्रव्यं साक्षादिन्द्रियसम्बन्धवेद्यत्वात्, घटवत्” [17]।
(घ) त्रैकालिकसंसर्गावच्छिन्नोऽयं शब्दः सर्वदा सर्वत्र सममेव गृह्यते। शब्दस्यैतत् सार्वकालिकग्रहणं तस्य विभुत्वं[20] नित्यत्वं[21] च द्योतयति। विभुत्वञ्च द्रव्यस्यैव सम्भवति- “सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्” [22] । एताभिः सर्वाभिः विशेषताभिः ज्ञायते यच्छ्ब्दो द्रव्यं न, गुण एव-
“पृथिवी सलिलं तेजः पवमानः
(वायु) तमस्तथा ।
व्योम-काल-दिगात्मानो मनः शब्द इति क्रमात् ॥
2.1.5 शब्दस्य द्रव्यत्वनिरासः-
वैशेषिकैः शब्दद्रव्यत्ववादीनामेतेषां युक्तियुक्तखण्डनैः सिद्धान्तोऽयं क्रमशः स्थिरीक्रियते- शब्दो गुण एव न खलु द्रव्यमिति-
(क) शब्दस्य
प्रत्यक्षं स्वाश्रयिण आकाशात्पृथगेव भवतीति शब्दो न गुणः, भाट्टानामेष ऊहः व्यर्थ एव, इन्द्रियाणि प्रायशः द्रव्यस्थान्
गुणानेव गृह्णन्ति, गुणानाम् आश्रयद्रव्याणां ग्रहणमिन्द्रियैः न क्रियते, इत्यतः गुणप्रत्यक्षे
आश्रयद्रव्यस्य प्रत्यक्षं स्यादेव नास्त्येतदावश्यकम्, तद्यथा- चक्षुरिन्द्रियेण घ्राणेन्द्रियेण
वा क्रमशः रूपगन्धयोः ग्रहणे सति एतदनिवार्यं नास्ति यत्तयोः आश्रयद्रव्ययोः अपि ग्रहणं
भवत्येव, एतस्मादाश्रितत्वमेव गुणत्वस्याधारत्वमिति नियतं नास्ति[25]।
अतः यद्यपि गुणानां द्रव्याश्रितत्वं भवतु नाम, किन्तु द्रव्याश्रितत्वमेव तेषां लक्षणमिति
नाङ्गीक्रियते[26]
।
(ग) संख्यावेगादयो गुणाः वायोः सन्ति, न तु शब्दस्य । वायोः शब्दस्य वाहकत्वात्[28] तद्गुणाः शब्दस्येत्युपचर्यन्ते भ्रान्तिवशात्, यथा अज्ञानवशात् ‘गौरोऽहम्’ ‘अन्धोऽहमिति’ शारीरकधर्मा आत्मनि आरोप्यन्ते[29] ।
(घ) विभुत्वाच्च शब्दो द्रव्यमिति युक्तिरपि सदोषा एव – शब्दो विभुपदार्थः चेत्तर्हि श्रोत्रेन्द्रियेण तस्य ग्रहणं न सम्भाव्यते, यतोहि श्रोत्रेन्द्रियमपि आकाशस्वरूपत्वात् विभुरेव । द्वयोश्च विभुपदार्थयोः परस्परसंयोगः केनापि प्रकारेण न सम्भवति संयोगाभावे च श्रोत्रेण शब्दस्य ग्रहणं कथमपि स्वीकर्तुं न शक्यते, इत्यतः शब्दो न द्रव्यमिति वैशेषिकसिद्धान्तः[30] ।
महर्षिकणादोऽपि स्वयं शब्दस्य द्रव्यत्वं निराकुर्वन्नाह- किमपि कार्यद्रव्यम्, एकद्रव्यसमवायिकारणकं न भवति अपितु तदनेकद्रव्यसमवायिकारणकमेव । तद्यथा- घटः द्वयोः कपालयोः, पटश्चानेकतन्तुष्वेव समवेतो लक्ष्यते । अतः घटपटयोः समवायिकारणम्, अनेकद्रव्यसमवायिकारणकमेव विद्यते न तु एकद्रव्यसमवायिकारणकम् । किन्तु शब्दस्य समवायिकारणकमाकाशमेकमेव, एतस्मादेकद्रव्यसमवायिकारणत्वाद् शब्दो न द्रव्यम्, अपितु गुण एव- “एकद्रव्यत्वान्न द्रव्यम्” इति[31] ।
2.1.6 शब्दस्य कर्मत्वनिरासः-
यद्येकद्रव्यसमवायिकारणत्वं शब्दस्य गुणत्वे हेतुः, तर्हि कर्मणः अप्येकद्रव्यसमवायिकारणत्वाच्छब्दस्य कर्मत्वं स्यादित्येतां शङ्कां समादधता महर्षिकणादेनोक्तम्- शब्दः कर्म न भवितुं शक्नोति, यतोहि शब्दस्य श्रावणप्रत्यक्षं भवति, कर्मणस्तु चाक्षुषमेव । अतः चक्षुर्भिन्नश्रोत्रेन्द्रियप्रत्यक्षत्वात्कर्मत्वमसिद्धम् । लोके उत्क्षेपणादिकर्माणि चक्षुषैव गृह्यन्ते, किन्तु शब्दग्रहणे चक्षुरसिद्धा तस्य ग्रहणं तु खलु श्रोत्रेणैव भवति नान्येन । एतस्मादचाक्षुषत्वात्कर्मवैधर्म्याच्चायं शब्दो न कर्म इति- “नापि कर्माचाक्षुषत्वात्” [32] ।
अपि च केनापि उत्क्षेपणादिकर्मवदाशुतरविनाशित्वं (क्षणिकत्वम्) शब्दस्यापि दृष्टे सति तस्य कर्मत्वं परिशङ्क्यते चेत्तत्राप्यदोष एव- आशुतरविनाशित्वं तु शब्दस्य गुणत्वेऽपि सम्भवति, कर्मसाधर्म्यान्न तु कर्मत्वादिति भावः[33] । यथा द्वित्वादयः संख्याः, आत्मज्ञानम्, सुखदुःखेत्यादयो गुणाः क्षणिकाः तथैव शब्दस्यापि क्षणिकत्वे गुणत्वमुचितम् । वस्तुतः आशुतरविनाशित्वं (क्षणिकत्वम्) कर्मणां व्याप्यधर्मः नास्ति- यत्र-यत्र कर्मत्वं तत्र-तत्राशुतरविनाशित्वमिति नियमाभावात् । अतः कर्मसाधर्म्येऽपि शब्दस्य कर्मत्वपरिहारः[34] ।
2.1.7 शब्दस्य सामान्यविशेष-समवायत्वनिरासः-
वैशेषिकसूत्रविवृत्तिव्याख्यायां जयनारायणतर्कपञ्चाननेन- शब्दो शब्दत्वजातिमान्, किन्तु सामान्यविशेषसमवायानां जातिर्न विद्यते[35] इति शब्दस्य सामान्य-विशेष-समवायत्वपरिहारोऽपि क्रियते[36] ।
2.1.8 शब्दस्याभावत्वनिरासः-
शब्दत्वजातित्वादेव यद्यपि शब्दस्य अभावत्वं परिह्रियते तथापि पद्मनाभमिश्रेण विध्यात्मकत्वात् अप्रतियोगित्वाच्चास्य अभावत्वं निराक्रियते- “नाप्यभावो निःप्रतियोगित्वात्” [37]।
2.2 शब्दस्य गुणत्वसिद्धिः-
इत्येवं षण्णामपि द्रव्य-कर्म-सामान्य-विशेषसमवायाभावानामसिद्धे सति परिशेषानुमानेन शब्दस्य गुणत्वमङ्गीक्रियते[38] ।
किन्तु शब्दस्य गुणत्वसिद्धावपि गुणानां द्रव्याश्रितत्वाद् एतत्तु अनिश्चितमेव यत्पृथिव्यादिषु नवद्रव्येषु किं तस्य कारणम् ? यतोहि पृथिव्यादिकार्यद्रव्येषु ये रूपरसादयो विशेषगुणास्ते कारणगुणपूर्वकाः दृष्टाः- “कारणगुणपूर्वकः कार्यगुणो दृष्टः” । [39], तद्यथा- शुक्लतन्तुष्वेव शुक्लस्य पटस्योत्पत्तिः भवति नान्यत्र । शब्दोऽपि विशेषगुणः[40], अतः किं तत्कार्यद्रव्यम्? यत्र कारणगुणपूर्वकः शब्दः स्यात्, किं वा शब्दस्य समवायिकारणमिति जिज्ञासायां महर्षिकणादेन द्रव्याणामेकैकशः परीक्षा क्रियते-
2.2.1 शब्दः स्पर्शवतामगुणः-
स्पर्शवतामगुणत्वे वैशेषिकैः, शब्दस्य त्रीणि कारणानि ज्ञाप्यन्ते- अकारणगुणपूर्वकत्वम्, अयावद्द्रव्यभावित्वम्, आश्रयादन्यत्रोपलब्धत्वञ्च-
“शब्दः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादयावद्द्रव्यभावित्वादाश्रयादन्यत्रोपलब्धेश्च न स्पर्शवद्विशेषगुणः इति” ।[41]
शब्दस्याकारणगुणपूर्वकत्वम्-
पृथिव्यादीनां चतुर्णां कार्यद्रव्याणां ये रूपरसादयो विशेषगुणाः, ते कारणगुणपूर्वका एव गृह्यन्ते, यथा- तन्तुकपालादिषु कारणेषु ये
रूपरसाद्यनुभूयन्ते, त एव रूपरसादयः, पटघटादिषु कार्येष्वपि उपलभ्यन्ते- “कारणगुणपूर्वकः कार्यगुणो दृष्टः”[42] । किन्तु शब्दस्तु न तथा,
कारणगुणपूर्वकः शब्दस्स्यात् चेत्तर्हि वीणावेणुमृदङ्गशङ्खपटहाद्यवयवेषु यः शब्द उपलब्धः, स एव वीणाद्यवयविषु उपलभ्येत, न चैवम्, प्रत्युत निःशब्दैरेव वीणाद्यवयवैः वीणाद्यवयवीनामुत्पत्तिः दृश्यते, किन्तु निरूपैः तन्तुकपालादिभिः पटघटादीनामुत्पत्तिर्न ज्ञायते । अतः अकारणगुणपूर्वकत्वात् कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतां (पृथिव्यप्तेजोवायूनाम्) गुणभावो न भजते- “कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः” इति [43] । वैशेषिकसूत्राणाम् अर्वाचीनव्याख्याकारः
स्वामी ब्रह्ममुनिः परिव्राजकः सूत्रस्यास्य विशिष्टं व्याख्यानं चक्रे- “स्पर्शवतामगुणः शब्दः = पृथिव्यप्तेजोवायूनां न गुणः
शब्दः। यतः कार्यान्तरप्रादुभावाच्च = पृथिव्याः कार्यं पार्थिवं, अपां
कार्यमाप्यम्, तेजसः कार्यं तैजसम्, वायोः कार्यं वायव्यम् । एतेभ्यः पार्थिवाप्यतैजसवायव्येभ्यः
कार्येभो भिन्नानि कार्याणि कार्यान्तराणि, यानि पृथिव्यादीनां मिश्रणादुद्भूतानि
कार्याणि तेष्वपि शब्दस्याप्रादुर्भावात् तथा चकारात् पृथिव्यादीनां पृथक्-पृथक्
यानि सजातियानि कार्याणि पार्थिवानि, आप्यानि, तैजसानि, वायव्यानि तेषु
चाप्रादुर्भावात्। यदि शब्दः स्पर्शवतां
पृथिव्यप्तेजोवायूनां गुणः स्यात् तेषां कार्येषु कार्यान्तरेषु प्रादुर्भवेत् “कारणगुणपूर्वकः
कार्यगुणो दृष्टः” इति नियमात्। न च प्रादुर्भवति तस्मान्न स्पर्शवतां
पृथिव्यप्तेजोवायूनां गुणः शब्दः। शङ्करमिश्रादिभिः सूत्रं न सम्यग्व्याख्यातम्” ।
इति
शब्दस्यायावद्द्रव्यभावित्वम्-
पृथिव्यादीनां स्पर्शवतां ये रूपरसादयो गुणाः ते यावद्द्रव्यभाविनः वैचित्र्येण नानुभूयन्ते। किन्तु शब्दस्तु अयावद्द्रव्यभावी तार-तारतर-मन्द-मन्दतररूपेण वैचित्र्येणोपलभ्यते। यद्यपि वीणायाः यो रूपगुणः सः यावद्द्रव्यभावी सर्वेषु च वीणावयवेषु समानभावेन प्राप्यते। अनेन स्पष्टं यद्वीणायाः गुणः रूप एव न तु शब्द इति।
शब्दस्याश्रयादन्यत्रोपलब्धत्वम्-
यदि शब्दः स्पर्शवतां विशेषगुणः स्यात् तर्हि यैः शङ्खवीणादिभिः शब्द उत्पद्यते, त एव शङ्खादयो शब्दस्याश्रयिणः स्वीकर्तव्याः, परन्तु शब्दस्तु तेभ्यः अन्यत्र कर्णशष्कुलीप्रदेशे समुपलभ्यते । न चान्यगुणस्यान्यत्र ग्रहणमस्तीति नियमान्न स्पर्शवद्विशेषगुणः शब्द इति[44] ।
2.2.2 शब्दो नात्मगुणः-
शब्द आत्मनि असमवेतत्वे सति अन्यत्र समवेतत्वात् नात्मगुणः- “परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न
मनोगुणः”[45]। शब्दो यद्यात्मगुणो स्यात्तर्हि- अहं सुखी, अहं दुःखी, अहं यते, अहं जानामि इत्याद्यात्मानुभववत्- अहं वाद्ये, अहं शब्दवानिति अनुभवः स्यात्, किन्तु अनुभवस्तु शङ्खः पूर्य्यते, वीणा वाद्यते इति भवति । अतः शब्दो नात्मगुणः[46] ।
तथा चापि सुख-दुःख-ज्ञानेत्यादयो आत्मगुणाः बाह्येन्द्रियैः न गृह्यन्ते, परन्तु शब्दस्य बहिरिन्द्रिय-श्रोत्रग्राह्यत्वं स्पष्टमेव, इत्यतोऽपि शब्दो नात्मगुणः[47] । परत्र समवायादिति सूत्रं व्याख्यापयन् आचार्य
शंकरमिश्रोऽप्याह- “किञ्च शब्दो
नात्मगुणः बाह्येन्द्रियग्राह्यत्वात् रूपादिवत् अपि च शब्दो
यद्यात्मयोग्यविशेषगुणः स्याद्बधिरेणाप्युपलभ्येत दुःखादिवत् तस्मात् सुष्ठूक्तं
परत्र समवायादिति”[48]।
2.2.3 न मनोगुणः शब्दः, नापि च दिक्कालयोः-
अमनोगुणत्वेऽपि हेतुमाह महर्षिकणादः- प्रत्यक्षत्वादिति[49] । शब्दस्य श्रोत्रेन्द्रियप्रत्यक्षं भवति यदा च अणुपरिमाणवतो मनसः[50] विशेषगुणप्रत्यक्षशक्तिरसम्भवा, यतोहि विशेषगुणप्रत्यक्षत्वे द्रव्यस्य महत्परिमाणवत्त्वमावश्यकम्, मनस्तु अणुपरिमाणवदिति शब्दो न मनोगुण इति । आचार्यशङ्करमिश्रः प्रत्यक्षत्वादिति अनेनैव हेतुना दिक्कालयोरपि गुणत्वं शब्दस्य प्रतिषिद्धमिति सूचयति[51] । आचार्यप्रशस्तपादोऽपि श्रोत्रग्राह्यत्वात् विशेषगुणत्वाच्च शब्दो न दिक्कालमनसां गुण इति कणादाभिमतमेव स्पष्टयति- “श्रोत्रग्राह्यत्वाद् वैशेषिकगुणभावाच्च न दिक्कालमनसाम्”[52]। व्योमवतीकारस्तु- यो यो विशेषगुणः सः सः दिक्कालमनसां गुणो न
भवितुं शक्नोति । शब्दोऽपि विशेषगुणः एतस्माद्विशेषगुणत्वाच्छब्दो न दिक्कालमनसां गुण इति अनुमानयुक्त्यैव शब्दस्य दिक्कालमनोगुणत्वमपनयति[53] ।
2.2.4 परिशेषतः शब्दोऽम्बरगुणः-
उपर्युक्तविधिना पृथिव्यप्तेजोवायुकालदिगात्ममनसामष्टानां द्रव्याणां शब्दगुणाश्रयत्वे असिद्धे सति परिशेषादाकाश एव शब्दस्याश्रय इति निश्चीयते- “परिशेषाल्लिङ्गमाकाशस्य”[54], यतोहि शब्दो गुणः, गुणश्च द्रव्यमन्तरेण न सम्भवति[55], द्रव्याणि च नवैव[56], तत्रापि पृथिव्यादिष्वष्टसु शब्दाश्रयत्वं न विद्यते । अतः परिशेषाद् शब्दाश्रयरूपेण आकाशसिद्धिर्भवति- “गुणः शब्दः, गुणश्च गुणिना
विना न भवति, न चैष पृथिव्यादीनां गुणः, द्रव्यान्तरञ्च नास्ति, तस्माद्यस्यायं गुणस्तदाकाशमिति
परिशेषादाकाशस्याधिगमे प्रतिपत्तौ लिङ्गमित्यर्थनिर्द्देशः”।[57]
उदयनाचार्योऽपि शब्दस्य गुणवत्तया एव आकाशसिद्धिं प्रतिष्ठापयति[58] । व्योमवतीकारेणापि आकाशसिद्धौ एतदेवानुमानमुपन्यस्तम्[59] । इत्थं पर्यालोचनेन शब्द आकाशस्य विशेषगुण इति वैशेषिकसिद्धान्तः स्थापितो भवति-
“आकाशस्य तु विज्ञेयो शब्दो वैशेषिको गुणः ।
2.3 शब्दानित्यत्वसिद्धिः-
शब्दस्याम्बरगुणत्वे निश्चिते सति द्वितीया समस्या उपतिष्ठते- शब्दो नित्यः ? उत्पत्तिमत्वाद्वा अनित्य इति ? अस्मिन् विषयेऽपि नित्यत्वानित्यत्ववादीनां दार्शनिकानान्तत्र द्विविधो विभागः परिलक्ष्यते-

![]() |










वर्णात्मकः ध्वन्यात्मकः वर्णात्मकः ध्वन्यात्मकः
(नित्यः) (अनित्यः) (नित्यः) (अनित्यः)
![]() |

![]() |
वर्णात्मकः ध्वन्यात्मकः
(अनित्यौ)
[चित्रसङ्ख्या 2.2: शब्दस्य नित्यत्वानित्यत्वम्]
नित्यत्वानित्यत्ववादोऽयं विवादः मुख्यतया न्यायवैशेषिक-मीमांसकयोश्च मध्ये स्फुटतरमभिलक्ष्यते । एतस्मादस्य वादविवादस्य विश्लेषणमत्र प्रासङ्गिकमेव ।
2.3.1 मीमांसकानां शब्दनित्यत्ववादः-
शब्दस्योत्पत्तिः निराकुर्वद्भिः मीमांसकैः तस्य नित्यत्वमभ्युपगम्यते- आकाशस्य नित्यत्वात् तद्गुणः शब्दोऽपि नित्य एव[61] । नित्यत्वादाकाशे च विद्यमानत्वात् शब्दस्योत्पत्तौ किमपि कारणं नोपलभ्यते[62] । इत्यतः कण्ठताल्वाद्यभिघाताद् आकाशदेशस्थस्यैव शब्दस्याभिव्यञ्जनं भवति न त्वुत्पत्तिः- “यथा घटादेर्दीपादिरभिव्यञ्जक
इष्यते ।
यतोहि न स्वयं शब्दः नापि च संयोगविभागौ शब्दस्योत्पत्तौ
समर्थौ स्तः-
“शब्दं नारभते शब्दः शब्दत्वादन्त्यशब्दवत् ।
एवं विभागसंयोगौ
तद्भावादन्त्ययोगवत्”॥ [64]एतस्मादुत्पाद- विनाशधर्माभावाद् नित्योऽयं शब्दः न त्वनित्य इति[65] ।
2.3.2 वैशेषिकाणां शब्दानित्यत्ववादः-
मीमांसकाभिमतं प्रतिषेधयद्भिः वैशेषिकैः शब्दस्योत्पत्तिमत्त्वात् तस्यानित्यत्वं प्रतिज्ञायते- यस्योत्पत्तिः भवति स कथं नित्यः ? नित्यस्तु स यस्योत्पत्तिर्न भवति यथा- आकाशादयो विभुपदार्थाः । परं शब्दस्तु कण्ठताल्वाद्यभिघातादुत्पद्यते, अतः तस्यानित्यत्वं सिद्धमेव । यदि च कण्ठताल्वाद्यभिघातात्प्रागूर्ध्वमेव शब्दस्य सत्ता स्यात्, तर्हि तस्य नित्यत्वं प्रतिज्ञायेत, किन्तु उच्चारणात्प्राक् अनुच्चारणदशायां शब्दसत्त्वे प्रमाणं नोपलभ्यते, तस्मात् कार्य एवायं न व्यङ्ग्यः- “सतो लिङ्गाभावात्” इति[66]।
क्षणिकत्वादनित्यः शब्दः-
यः व्यङ्ग्यः तस्योत्पत्तिर्न भवति न चापि विनाशः, परन्तु कण्ठताल्वाद्यभिघातादुत्पन्नस्य शब्दस्य तृतीये क्षणे विनाश[67] इति शब्दस्तु उभयधर्मवान् । आचार्यः प्रशस्तपादोऽपि शब्दलक्षणे क्षणिक[68] इति पदेन एतदेवाभिव्यञ्जयति यदाशुतरविनाशी शब्दो न तु नित्यः- “आशुतरविनाशी शब्दो न तु नित्यः उच्चारणादूर्ध्वमनुपलम्भात्” [69] इति।
नित्यवैधर्म्यादनित्यः शब्दः-
किञ्च उत्पत्तिधर्मवानपि स एव पदार्थो भवति, यः उत्पत्तिकारणानन्तरमेवोपलभ्यते न तु पूर्वम्, तद्यथा- कपालस्य पश्चादेव घटस्योत्पत्तिः, तन्त्वनन्तरमेव वा पटस्योत्पत्तिः भवति न तु पूर्वम् । तथैव कण्ठताल्वाद्यभिघातात् पूर्वं शब्दः अविद्यमानः सन् अभिघातान्तरमेवोपलब्धत्वात्तस्य कर्णशष्कुल्यां प्रतीतिः, न तु पूर्वम्, इत्येवं शब्दे नित्यपदार्थविरुद्धधर्मणामुपसर्जनत्वात्[70] अनित्योऽयं शब्द इति । आचार्य शङ्करमिश्रः “नित्यवैधर्म्याद्” इति सूत्रार्थं स्पष्टयन् कथयति- चैत्र इति नामधेयेन मैत्र इति वा नामधेयेन पुरुषेणोच्चारिताञ्छब्दान् श्रुत्वा भित्त्यादिव्यवहिते सत्यपि अस्माभिः वचनेनैव चैत्रमैत्रादीनामनुमानङ्क्रियते, किन्तु व्यङ्ग्यैः घटपटादिभिः पदार्थैः प्रदीपादिर्व्यञ्जको नानुमीयते। तस्माज्जन्य एवायं शब्दो न व्यङ्ग्य इति[71] ।
कारणवत्त्वादनित्यः शब्दः-
शब्दस्यानित्यत्वे तस्य कारणवत्त्वमपि हेतुः- “अनित्यश्चायं कारणतः; न चासिद्धं विकारात्”[72] । कारणवत्त्वस्यास्य व्याख्या विविधरूपेण कर्तुं शक्यते । तद्यथा-
(क) उपलभ्यते हि कण्ठताल्वाद्यभिघातात् भेरीदण्डसंयोगादिभ्यः प्रादुर्भवन् शब्दः, स च भेरीदण्डादिभिः तीव्राघातैः तीव्रः मन्दाघातैश्च मन्दः प्रतीयते, न हि अभिव्यञ्जकप्रदीपादीनां तीव्रतया मन्दतया वा घटादिषु अभिव्यङ्ग्येषु तीव्रत्वं मन्दत्वं वोपलभ्यते, अतः कारणतो विकारादेव शब्दे विकारमापद्यते[73] ।
(ख) घटादिवत् विकारत्वादपि शब्दस्य कार्यत्वं सिद्धम्, यथा- घटपटादिः कार्यवस्तु, शनैः शनैर्विकारमापद्यमानः क्रमेण नैर्बल्यं, जीर्णत्वं प्राप्नुवन् सन् विनष्टो भवति, तथैव शब्दोऽपि तीव्रतमत्वं, तीव्रतरत्वं, तीव्रत्वं, मन्दत्वं मन्दतरत्वं मन्दतमत्वं विकारमापद्यमानः क्रमेण नैर्बल्यं प्राप्नुवन् विनष्टो भवति[74] ।
(ग) शब्दे अवस्थान्तररूपो विकारोऽपि भवति । यथा- दधि शब्दे स्थित इकारः दध्यत्र इति यकाररूपेण विक्रियते । न चाकार्यस्य विकारो भवति । तस्मात्कार्यः, उत्पत्तिमान् शब्दः । अत एव कारणवांश्च[75] ।
(घ) तथा च मनुष्यपशुपक्षीणां ध्वनीनां परस्पर-वैलक्ष्ण्यादपि शब्दस्य विकारवत्त्वं द्योत्यते । शब्दस्येयं विलक्षणता कारणवैलक्षण्यादेव प्रतिभाति[76] । एतस्मात्कारणवतो विकारादेवानुमीयतेऽनित्योऽयं शब्दः न तु अभिव्यङ्ग्यः।
मीमांसकाभिमतशब्दाभिव्यक्तिपक्षे दोषाः-
यद्यत्र मीमांसकैः उत्पत्तिमतिरिच्यशब्दस्याभिव्यक्तिः स्वीक्रियेत[77] ऊह्येत च – शब्दस्तु त्रैकालिकसंसर्गावच्छिन्नप्रतियोगित्वान्नित्यः, यदा तस्य अभिव्यञ्जकान्युपतिष्ठन्ते तदैव तस्याभिव्यक्तिः सञ्जायत इति, चेत्तत्र दोषः[78]-
व्यङ्ग्यव्यञ्जकदोषः-
कस्मिन्नपि एकदेशे व्यञ्जकेनोपस्थितत्त्वे सति तत्र समानेन्द्रियग्राह्याणि यावन्त्यपि वस्तूनि भवन्ति, तेषां सर्वेषामेव समानग्रहणं भवति । तद्यथा– कुत्रचिद्भवने विभिन्नाकाररूपा अपि घट-पट-पात्र-पुस्तक-वस्त्रेत्यादयो विविधाः पदार्थाः पूर्वतः स्थितास्सन्तः खल्वेकस्य व्यञ्जकप्रदीपस्य सत्त्वात् समानदेशे समानेन्द्रियेण नेत्रेणाभिव्यज्यन्ते । यत्र व्यङ्ग्यव्यञ्जकभावो भवति तत्र सर्वत्रैवैषा स्थितिः। किन्तु न तथा शब्दविषयः, तत्र तु प्रत्येकस्य शब्दस्य कृते प्रतिनियतानि व्यञ्जकानि निश्चितानि भवन्ति,
यथा- भेरीशब्दस्य यः व्यञ्जकः, सः तन्त्रीशब्दस्य व्यञ्जको न भवति, यश्च तन्त्रीशब्दस्य व्यञ्जकस्सः शङ्खशब्दस्य व्यञ्जको न भवति, इत्येवं समानदेशस्थानां समानेन्द्रियग्राह्याणां शब्दानामभिव्यक्तौ प्रतिनियतव्यङ्ग्यव्यञ्जकत्वदोषो आपतति[79] ।
अनेन स्पष्टं यत्- भेरीदण्डसंयोगः शब्दस्य व्यञ्जको न भवति । यदि शब्दस्याभिव्यक्तौ प्रतिनियतव्यङ्ग्यव्यञ्जकभावदोषो न
स्यात्, भेरीदण्डसंयोगश्च शब्दस्य व्यञ्जको स्यात् तर्हि प्रदीपादेर्व्यञ्जक इव भेरीदण्डसंयोगेनैव समानदेशस्थानां सर्वेषामेव शब्दानामभिव्यक्तिः सम्भाव्येत- “तथा वीणादिशब्दाभिव्यञ्जकेन रासभशब्दस्याप्यभिव्यक्तत्वाद् ग्रहणे वीणाशब्दस्य सर्वदानुपलम्भ एव स्यात्” [80],तथा च केनापि क इति उच्चारणमात्रेणैव सर्वे वर्णा अभिव्यञ्जेरन् श्रूयेरंश्चेति दोषः[81] । न श्रूयन्ते न चाभिव्यज्यन्ते, तस्माज्जन्योऽयं शब्दः
न तु व्यङ्ग्यः[82] ।
व्यङ्ग्यव्यञ्जकदोषे अभिभवभावस्यानुपलब्धिः-
पदार्थानां व्यङ्ग्यव्यञ्जकभावे सति अभिव्यक्तेषु सर्वेषु पदार्थेषु परस्परमभिभवभावो न दृश्यते[83]। सर्वे पदार्थाः समानरूपेणैव गृह्यन्ते, किन्तु शब्दाभिव्यक्तौ अभिभवभावोऽयं नितरां संलक्ष्यते- भेरीशब्देन तन्त्रीशब्दो अभिभूयते, रासभशब्देन च वीणाशब्दोऽभिभूयते[84], यद्यत्र व्यङ्ग्यव्यञ्जकभावो भवेत्तर्हि सर्वेषां भेरीतन्त्री-रासभ-वीणादिशब्दानां समानाभिव्यक्तिप्रसङ्गात् वीणाशब्दो, तन्त्रीशब्दो वा नाभिभूयेत इति दोषः, तस्मान्नाभिव्यक्तिः शब्दस्य अपितु उत्पत्तिरेव । अतः सिद्धं शब्दस्य कार्यत्वमिति[85] ।
शब्दस्यानित्यत्वे लिङ्गत्वमपि हेतुः-
न केवलम् उपर्युक्ताभिर्युक्तिभिः शब्दोऽनित्यः । अपि तु लिङ्गाच्चापि अनित्योऽयं शब्दः- “लिङ्गाच्चानित्यः शब्दः” [86]। काणादसूत्राणां रसायनव्याख्याकारः
श्रीवीरराघवाचार्यः सूत्रमिदं विवेचयन्नाह- ‘लोके नेदानीं शब्दः, निवृत्तः कोलाहलः इत्यादिकं नाशविषयकं प्रत्यक्षमपि गृह्यते अतः
लिङ्गात्= प्रत्यक्षादनित्योऽयं शब्द इति[87]। तथा चापि सूत्रेऽस्मिन् लिङ्गेति शब्दस्य वेदवाच्यत्वमपि गृह्यते[88] यतोहि- त्रयो वेदा अजायन्त, महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः.... इति वैदिकप्रमाणैरपि शब्दस्यानित्यत्वं ज्ञाप्यते[89] ।
शङ्करमिश्रप्रभृतिभिरनेकैराचार्यैः “लिङ्गाच्चानित्यः” इति सूत्रस्य लिङ्गात् = अनुमानात्, अनित्यः शब्दः = वर्णात्मकशब्द इति[90] व्याख्यायद्भिरुच्यते- वीणादिध्वनिवद् अनुमानविधया ककारादिर्वर्णात्मकः शब्दोऽपि जातिमत्त्वे सति श्रोत्रग्राह्यत्वादनित्यो विज्ञायते[91] । इत्येवं ध्वन्यात्मक-वर्णात्मकयोरुभयोरपि शब्दयोरनित्यत्वं गम्यते ।
परन्त्वत्र मीमांसका इत्येवमुपतिष्ठन्ते- ‘भवतु ध्वन्यात्मकशब्दोऽनित्यः किन्तु वर्णात्मकस्तु नित्य एव’[92]। एतदर्थं मीमांसकैः वर्णात्मकशब्दस्य नित्यत्वपक्षेऽनेके हेतवः प्रदीयन्ते, येषु त्रयाणां चर्चा महर्षिकणादेनापि पूर्वपक्षरूपेण क्रियते । तद्यथा-
मीमांसकानां वर्णात्मकशब्दस्य नित्यत्वसाधकयुक्तयः-
(क) यदि वर्णात्मकशब्दस्यानित्यत्वमभ्युपगम्यते तर्हि अध्ययनाध्यापने गुरुशिष्ययोर्या प्रवृत्तिर्दृश्यते, सा न भवति- “द्वयोस्तु प्रवृत्त्योरभावात्”[93] इति। यदा गुरुरध्यापयति, शिष्यश्चाधीते, तदा गुरुणा विषयस्य ज्ञानं वर्णात्मकरूपेणैव उपदिश्यते । यदि आशुतरविनाशी वर्णात्मकः शब्दः, तदा गुरुशिष्ययोरादानप्रदानस्यैतस्याः प्रवृत्तेरभावप्रसङ्गः प्रसज्यते- “न ह्यनित्यः शब्दोऽध्यापनकाले तिष्ठन्नप्यध्ययनकाले स्थातुमर्हति” [94] ।
अतः खलु वर्णात्मकः शब्दस्तु नित्यस्स्यादेव[95]- “अध्ययनं हि सम्प्रदानं सम्प्रदीयते गुरूणा शिष्याय वेदः स यदि स्थिरो भवति तदा तस्य सम्प्रदानं सम्भवति”[96] ।
(ख) ऋग्वेदे “प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या..” इत्येकादश[97] सामिधेन्यः ऋचः सन्ति, परन्तु ताभिः पञ्चदशानामाहुतीनां विधानं विद्यते । कथं पुनरेकादशभिः ऋग्भिः पञ्चदश- आहुतयः प्रदातुं शक्यन्ते ?
एतदर्थमाचार्यैरुपायः निर्दिष्टः – “तासां त्रिप्रथमामन्वाह त्रिरुत्तमाम्”[98] इति । अर्थात् सामिधेन्यानामेकादशानामृचां प्रथमायाः ऋचः त्रिरावृत्तिम्, अन्तिमायाश्चापि त्रिरावृत्तिं विधाय 1×3+1×3+9×1=
15आहुतयः दातव्याः ।
प्रस्तुतप्रसङ्गे यदि शब्दानामनित्यत्वं गम्यते तर्हि प्रथमायाः ऋचः त्रिधा आवृत्तिरसम्भवा स्यात् । एतस्मात् “त्रिप्रथमामन्वाह त्रिरुत्तमाम्” इत्यत्र प्रथमाशब्दप्रयोगेण वर्णात्मकशब्दस्य स्थैर्य्यं द्योत्यत इति[99] ।
(ग) उच्चारणानन्तरमेव शब्दो विनष्टश्चेत्- सोऽयं गकारः यमहमश्रौषम्, महर्षिकणादो यदवदत् तदेव आचार्यप्रशस्तपादोऽप्याह इत्यादि प्रत्यभिज्ञानं कथं सम्भवेत् ? किन्तु प्रत्यभिज्ञानं तु भवति, अतः प्रत्यभिज्ञानेनानेन शब्दस्य नित्यत्वं विज्ञायते[100] ।
सिद्धान्तपक्षः (समाधानम्) :- (शब्दनानात्वेऽपि अध्ययनमभ्यसनं प्रत्यभिज्ञानञ्च)
मीमांसकैः शब्दनित्यत्वसाधकाः “द्वयोः प्रवृत्तिः, प्रथमाशब्दः, सम्प्रतिपत्तिः” इत्युपन्यस्ताः त्रयोऽपि हेतवः महर्षिकणादेन सन्दिग्धाः (अनैकान्तिक-हेत्वाभासाः) उच्यन्ते, यतोहि शब्दनानात्वेऽपि अध्ययनाभ्यसनप्रत्यभिज्ञानानि
तु सम्भवन्त्येव- “सन्दिग्धा सति बहुत्वे”[101] इति।
तद्यथा– यदि कश्चिद्गुरुः शिष्यं योगासनं नृत्यं वा अध्यापयति , शिष्यश्च तदधीते, तत्र सम्भवोऽयं लोकव्यवहारः– ‘यदासनं त्वया प्रथममक्रियत तद् पुनरावर्तनीयम्’, द्विरनृत्यत्, त्रिरनृत्यत् । यदेवासनं देवदत्त अकरोत् तदेव त्वमकार्षीः, यन्नृत्यं मोहनेन कृतं तदेव सोहनोऽपि करोति, इत्यध्ययनाभ्यसनप्रत्यभिज्ञानहेतवः नृत्ययोगासनरूपकर्मण्युपलभ्यमानत्वात्, अनेकान्ताः, सन्दिग्धाः हेत्वाभासास्सन्ति[102] । यतोहि निश्चितो हेतु एव स्वसाध्यं साधयितुं क्षमते न त्वसन्दिग्ध इति।
अपि च शब्दानित्यत्वे ‘स एवायं गकारः’ इति प्रत्यभिज्ञानहेतो उपपत्तिः सादृश्याधारेणापि कर्तुं शक्यते, यतोहि प्रत्यभिज्ञानस्य विषयः सजातीयत्वमेव विद्यते, न खलु तद्वयक्त्यभेदः । अतः प्रत्यभिज्ञानं नित्यत्वसाधकं न मन्तव्यम्, अपि तु अनित्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानमुत्पद्यत एवेति । यथा- बाल्यावस्थायां दृष्टे देवदत्ते विभिन्नाकाररूपस्वभावे सत्यपि वृद्धावस्थायामुपलम्भात् प्रत्यभिज्ञानं भवति
-‘स एवायं देवदत्त इति’ । तथैव शब्देऽपि सोऽयं गकार इति प्रत्यभिज्ञानं भविष्यत्येव[103] । इत्येवं सिद्धान्तमतानुसारेण – “तदेवेदमौषधं यन्मया कृतम् अधुना चायं करोति” इत्यादि सजातीयप्रतीतेः दर्शनात् शब्दस्यानित्यत्वेऽपि प्रत्यभिज्ञानादीनामुत्पत्तिः भवतीति । एतस्मादनित्य एवायं शब्दः न नित्य इति-
“उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता ।
सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥
तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ।
उपर्युक्तपर्यालोचनेन समासतः कथयितुं शक्यते- “वैशेषिकदर्शनानुसारं शब्दः चतुर्विंशतिर्गुणेष्वन्यतमः आकाशस्य विशेषगुणोऽस्ति, स च श्रोत्रग्राह्यः इन्द्रियान्तरेण न गृह्यते । श्रीधराचार्योऽपि एतदेव स्पष्टयन्नाह- ‘आकाशगुणत्वमेव तु केवलं शब्दस्यासाधारणधर्मत्वं न विद्यते, यतोऽहि संख्यादयोऽपि आकाशगुणाः सन्ति । अतः शब्दलक्षणे श्रोत्रग्राह्येति पदस्योपादानमनिवार्यम्’[105] । लक्षणावलीकारः उदयनाचार्योऽपि- ‘गुणत्वे सति यः श्रोत्रग्राह्यः सः शब्दः’ इति शब्दं लक्षयति[106] । अन्नम्भट्टोऽपि “श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः” इति शब्दलक्षणं प्रोवाच[107] ।
किन्तु नित्यस्याकाशस्य विशेषगुणत्वेऽपि शब्दस्तु न नित्यः अपितु उत्पत्तिमत्त्वात् , क्षणिकत्वात्, कारणवत्त्वाच्चास्यानित्यत्वमेव परिलक्ष्यते । एतस्मात्- ‘शब्दः अनित्यः सन् नित्यस्याकाशस्य विशेषगुणः श्रोत्रग्राह्यश्च वर्तत इति वैशेषिकशब्दसिद्धान्तः स्थापितो भवति’
॥ इति ॥
शब्दार्थमीमांसेत्यादयः ग्रन्थाः विशेषेण सहायकाः सन्ति ।
तत्र वर्णपदवाक्यभेदेन स्फोटस्त्रिधा । तत्रापि जातिव्यक्तिभेदेन पुनः षोढा ।
अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः ।... तत्र वाक्यस्फोटो मुख्यस्तस्यैव
लोकेऽर्थबोधकत्वात् तेनैवार्थसमाप्तेश्चेति । परमलघुमञ्जूषा, शक्तिनिरूपणम्, पृ० 4-7
[12]
(i) तुल्यजातीयेष्वर्थान्तरभुतेषु
विशेषस्य उभयथा दृष्टत्वात् । वै० सू०, 2.2.22; तत्रैव च- वै० सू० रसा०,
2.2.23; सु० वै० सू० वृ०, 2.2.23
(ii) टिप्पणी- सुगमावृत्ति-रसायनभाष्ययोः तु “तस्मिन् द्रव्यं गुणः कर्मेति संशय:” वै० सू०, 2.2.22 इति
सूत्रमेवोपलभ्यते ।
2.2.23, पृ० 94- 95
तुल्यजातीयेष्विन्द्रियैर्ग्राह्येषु रूपादिषु गुणेषु तद्भिन्नेषु द्रव्यकर्मषु च दृश्यते, तस्मात् संशयः शब्दो गुणो वा
द्रव्यं वा कर्म वा । अथवा तत्रोभयप्रकारेण कोटिद्वयप्रकारेण न क्वपि दृश्यते विशेषधर्मो विभागजत्वम्, शब्दं
विहाय न गुणेषु न द्रव्यकर्मसु दृश्यते तस्मात् संशयः । पुनश्चास्य विशेषधर्मः श्रोत्रेन्द्रियग्राह्यत्वं तन्न द्रव्ये
नान्यगुणे न कर्मणि तस्मात् संशयः । वै० द० ब्र० भा०, पृ० 35; वै० सू० वै० वृ०, पृ० 52-53
(i)
द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । वै० सू०, 1.1.16
(ii) रूपादीनां गुणानां सर्वेषां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निर्गुणत्वं निष्क्रियत्वम् । प्र० पा० भा०,
पृ० 60
(iii) अथ द्रव्याश्रिता ज्ञेया निर्गुणा, निष्क्रियाः गुणाः । भा० परि०, कारिका, 86
षण्णामपि पदार्थानामाश्रितत्वस्य संभवात्
दिक्कालपरमाण्वादि नित्यद्रव्यातिरेकिनः ।
आश्रिताः षडपीष्यन्ते पदार्था कणभोजिना ॥न्या० म०, पृ० 210
नाद्यः, तत एवाद्रव्यत्वनिरूपणे लिङ्गग्राहकमानबाधात् । नेतरः, कर्मत्वादेरप्रतिषेधे
संयुक्तसमवायादिवेद्यत्वशंकायां हेतोरसिद्धापत्तिः । न्या० ली०, पृ० 667-68
[29] Mishra, Umesh : Physical Theory of Sound, AUS,
Vol.2, p. 286.
[31]
वै० सू०, 2.2.23, तत्रैव च- (i) द्रव्यञ्च किमप्येकद्रव्यसमवायिकारणकं न भवतीति द्रव्यवैधर्म्यान्नायं शब्दो
द्रव्यमित्यर्थः । वै० सू० उप०, 2.2.23, पृ० 183
(ii) द्रव्यं कार्यद्रव्यं नैके द्रव्ये समवैति किन्त्वनेकेषु, यथा वस्त्रं नैकं तन्तुं समवैति न ह्येकस्मात्
तन्तोर्वस्त्रं सम्पद्यते बहुभ्य एव सम्पद्यते । वै० द० ब्र० भा०, पृ० 36
तथा- प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः परिशेषः इत्यर्थः । तदेव, पादटिप्पणी
वैशेषिकगुणाः । सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वगुरुत्वनैमित्तिकद्रवत्ववेगाः
सामान्यगुणाः । प्र० पा० भा०, पृ०
60
(ii) बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेह सांसिद्धिको द्रवः ।
अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः ॥
संख्यादिरपरत्वान्तो द्रवोऽसांसिसिद्धिकस्तथा ।
गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः ।। भा० परि०, कारिका, 90-92
किरणा०, पृ० 106-107
[47] बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायादहङ्कारेण विभक्तग्रहणाच्च नात्मगुणः । प्र० पा० भा०, पृ०
37
दिक्कालमनसां गुणो न भवति, यथा रूपादिः, तथा चायं विशेषगुणः, तस्मान्न दिक्कालमनसां
गुणः शब्दः इति । व्योम०, प्रथमो भागः, पृ० 116
(ii) अथ द्रव्याश्रिताः ज्ञेयाः निर्गुणाः निष्क्रिया गुणाः । भा० परि०, कारिका, 86
(ii) तत्र द्रव्याणि पृथव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंज्ञयोक्तानि
नवैवेति । तद्व्यतिरेकेणान्यस्य संज्ञानभिधानात् । प्र० पा० भा०, पृ० 3
[66]वै० सू०, 2.2.26 तत्र च- यदि हि उच्चारणात् प्रागूर्ध्वं शब्दः सन् स्यात् तदा सतोऽस्य लिङ्गं प्रमाणान्तरं
स्यात् । न चाश्रवणदशायां शब्दसत्त्वे प्रमाणमस्ति, तस्मात् कार्य्य एवायं न व्यङ्ग्य इति । वै० सू० उप०, 2.2.26
तत्रैव च- नित्यो हि सर्वकालवर्ती, अयं (शब्दः) तु कादाचित्कः अल्पकालवर्ती द्विक्षणावस्थायी
अतो न नित्यः । सु० वै० सू० वृ०, पृ० 44
[71]
नित्येन सहास्य शब्दस्य वैधर्म्यमुपलभ्यते यतश्चैत्रो वक्तीत्यत्रावृतोऽपि चैत्रमैत्रादिर्वचनेनानुमीयते । न च व्यञ्जकः प्रदीपादिर्व्यङ्ग्येन घटादिना क्वचिदनुमीयते, तस्माजन्य एवायं न व्यङ्ग्य इति भावः । वै० सू० उप०, 2.2.27, पृ० 185
पृ० 38, वै० द० वि० भा०, पृ० 155
प्रदीपस्य सत्ता काले व्यज्यते; न तु तन्निर्वाणेऽपि । शब्दस्तु उच्चारणादिव्यापारविनाशात् परं
श्रूयते। घनयुगसंघट्टजन्मा हि निर्दोषो विद्युतः संघट्टजनिताया दर्शनात्परं विलम्बेन श्रूयते ।
वै० द० रसा०, पृ० 101
वेदस्यानुमितिविशेषे हेतुत्वाच्च लिङ्गशब्देन तदभिधानम् । सु० वै० सू० वृ०, पृ० 45
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ यजु०, 31.7
(ii) स तपोऽतप्यत तस्मात् तपस्तेपानात् त्रयो वेदा अजायन्त । शत० ब्रा०, 11.5.8.3
(iii) अस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः ॥ बृ० आ० उप०, 2.4.10
वै० द० वि० भा०, पृ० 117
वै० द० रसा०, पृ० 103; वै० सू० वै० वृ०, पृ० 55-56; वै० द० ब्र० भा०, पृ० 39
वै० द० ब्र० भा०, पृ० 39; वै० सू० वै० वृ०, पृ० 58; वै० द० वि० भा०, पृ० 119
(ii) सम्प्रतिपत्तिः प्रत्यभिज्ञा । स एवायं गकार इत्यादिप्रत्यभिज्ञयापि
वर्णात्मशब्दस्थायित्वसिद्धिरित्यर्थः । वै० सू० अ० क० व्या०, पृ० 33
(iii) ननु चासिद्धं शब्दे क्षणिकत्वम्, प्रत्यभिज्ञानादेरुपलम्भात् । यमहमश्रौषं गोशब्दम्,
तमेतर्हि शृणोमि इति श्रोतुएविज्ञानमुत्पद्यमानमुपलब्धम् । व्योम०, द्वितीयो भागः, पृ० 237
(iv) संख्याभावात् । मी० द०, तर्कपादः, 1.1.20, तत्रैव च शाबरभाष्यम्- “अष्टकृत्वो
गोशब्दः उच्चरितः इति वदन्ति, नाष्टौ गोशब्दा इति । किमतः यद्येवम् ? अनेन
वचनेनावगम्यते- प्रत्यभिजानन्तीति । वयं तावत् प्रत्यभिजानीमो, न नः करणदौर्बल्यम् ।
एवमन्येऽपि प्रत्यभिजानन्ति- स एवायमिति । प्रत्यभिजानाना प्रत्यभिजानन्ति चेद्
वयमिवान्येऽपि ‘नान्य’ इति वक्तुमर्हन्ति” ।
[102]
वै० सू० उप०, 2.2.36, पृ० 192; वै० द० ब्र० भा०, पृ० 40; सु० वै० सू० वृ०, पृ० 46; वै० द० रसा०, पृ० 104